द्याख्यानं भविष्यति । तदनेनाभिसंधिनोक्तं “शनस्यैव चि प्रापकं कर्म प्रणाद्य मोक्षकारणमित्युपचर्यते” । यत एव न । विद्योदयसमये कर्मास्ति नापि परस्तात् । अपि तु प्रागेव विद्यायाः । अत एव चातिक्रान्तविषयमेतत्कार्येकत्वाभिधा नम् । एतदेवं स्कोरयति । "नदि ब्रह्मविद” इति । त्रान्त रमवतारयितुं पृच्छति “किं विषयं पुनदिदमिति । अस्या तरं हुत्रम् ।
अतोऽन्यापि केषामुभयोः॥१७॥
काम्यकर्मविषयमश्लेषविनाशवचनं शखान्तरीयवचनं च तस्य पुत्र दोयमुपयन्तीति ॥
यदेव विद्ययेति हि ॥ १८ ॥
अस्ति विद्यासंयुक्तं यशदि य एवं विद्वान् यजेनेत्यादिक म् । अस्ति च केवलम् । तत्र यथा ब्राह्मणाय हिरण्यं द द्यादित्युक्ते विदुषे ब्राह्मणाय दद्यान्न ब्राह्मणब्रुवाय मूख्येति विशेषप्रतिलम्भः तत्कस्य हेतोस्तस्यातिशयवत्त्वात् । एवं वि द्यारचिताद्यज्ञादेर्विद्यासचितमतिशयवदिति तस्यैव परविद्या साधनत्वमुपात्तदुरितक्षयद्वारा नेतरस्य । तस्माद्विविदिषन्ति यज्ञेनेत्यविशेषश्रुतमपि विद्यासक्तेि यशदावुपसंहर्तव्यमिति प्राप्ते ऽभिधीयते । यदेव विद्याया करोति तदेवास्य वीर्य वतरमिति तरबर्थभृतेर्विद्यारहितस्य वोर्यवत्तामात्रमवगम्यते । म च सर्वथा ऽकिंचित्करस्य तदुपपद्यते । तस्मादस्यस्यापि कयापि मात्रया .परविद्योत्पादोपयोग इति विद्यारहितमपि यदि परविद्यार्थिनऽनुष्ठेयमिति सिद्दम् ॥