एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ ४ पा. सू .२ ]
[भामती]
[७२८]

णस्यबात्मताम् । प्रकृतिविकारयोस्तादात्म्यात्तथा च प्रा णो मनसः प्रकृतिरिति मनसो वृत्तिमतः प्राणे लय इति प्राप्ते ऽभिधीयते । सत्यमापोन्नमद्भजन्तइति श्रुनेरबनयोः प्रकृतिविकारभावोवगम्यते । न तु तद्विकारयोः प्राणमनसः योनिप्रणात्रिकया तु मिथो विकारयोः प्रकृतिविकारभावा भ्युपगमे संकराततिप्रसङ्गः स्यात् । तस्माद्यो यस्य साशाद्धि करस्तस्य तत्र लय इत्यनस्यच लयो न त्वविकारे प्राणे ऽन्नविकारस्य मनसस्तथा चात्रापि मनोवृत्तेर्वेत्ति मति प्राणे लयो न तु वृत्तिमतो मनस इति सिद्धम् ।

सध्यक्षे तदुपगमादिभ्यः॥ ४ ॥

प्राणस्तेजसति तेजःशब्दस्य भूतविशशेषवचनत्वादिज्ञाना त्मनि चाप्रसिद्धेः प्राणस्य जीवात्मन्युपगमानुगमावस्यानझुनी न च तेजोहारेणाप्युपपत्तेस्तेजसि समापनवृत्तिः खलु प्रा णस्तेजतु जीवात्मन्यवतिष्ठते । तद्वारा जोषात्मसमापन्न वृत्तिः प्राण इत्युपपद्यत । तस्मात्तजस्यव प्राणवृत्तिप्रविलय इति प्राप्ते ऽभिधीयते । स प्रकृतः प्राणे ऽध्यक्षे विज्ञानात्मव्य वतिष्ठते तत्तन्त्रवृत्तिर्भवति । कुतः। उपगमानुगमावस्थानेभ्यो तुभ्यस्तत्रोपगमशुतिमाष । एवमेवेयमात्मानमिति । अनुगम नश्रुतिमाच " "तमुक्मन्तमिति । अवस्थानश्रुतिमाच । "सविज्ञानो भवतीति चेति। विज्ञायतेनेनेति विज्ञानं पश्छद्म न्निप्राणसति इन्द्रियग्रामस्तेन सद्ववतिष्ठसइति सविज्ञानः । चोदयति। "ननु प्राणस्तेजसति श्रूयत”इति । अधिकावापो ऽशब्दार्थव्याख्यानम् । परिहरति । "नैष दोष इति”। यद्यपि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३१&oldid=141804" इत्यस्माद् प्रतिप्राप्तम्