वत् प्राप्तस्य तत्रैव लिङ्ग प्रलीयते न तु गतिमेवंभृतt विना लिङ्गप्रविषयं इति । अत एव श्रुतिः । पुरुषायणः पुरुषं प्र प्यास्तं गच्छन्ति । तदनेनाभिसंबन्धिना परं ब्रह्म गमय त्यमानव इति मेने जैमिनिराचार्यः । तत्त्वदर्श बादरिर्द दर्श ॥
कार्यं बदरिरस्य गत्युपपत्तेः ॥७॥
कार्यमप्राप्तपूर्वत्वादप्राप्तप्रापण गतिः ।
प्रापयेद् ब्रह्मा न परं प्राप्तवाञ्जगदात्मकम् ॥
तत्त्वमसिवाक्यार्थसाक्षात्कारात् प्राझेिल जीवात्मा ऽवि द्याकर्मवासनाद्यपाध्यवच्छेदाद्वस्तुतो ऽनवछिन्नो ऽवच्छिन्न मिवाभिन्नपि लोकेभ्यो भिन्नमिवात्मानमभिमन्यमानः स्व रूपादन्यानप्राप्तानर्चिरादोन् लोकान् गत्याम्नोतीति युज्य ते । अद्वैततत्त्वब्रह्मसाक्षात्कारवतस्तु विगलितनिखिलप्रपञ्च वभासविधमस्य न गन्तव्यं न गतिर्न गमयितार इति किं केन संगतम् । तस्मादनिदर्शनं न्यग्रोधसंयोगविभागा न्यग्रोधवानरतङ्गतितत्संयोगविभागानां मिथो भेदात् । न च तत्रापि प्राप्तप्राप्तिः कर्मजेन हि विभागेन निरुद्वय पूर्वप्राप्तवप्राप्तस्यैवोत्तरप्राप्तेरुत्पत्तेः । एतदपि वस्तुतो विचा रासचतया सर्वमनिर्वचनीयविम्भितमविद्यायाः समुत्पन्ना दैवतत्त्वसाशात्कारो न विद्वानभिमन्यते । विदुषोपि देव पातात्पूर्वं स्थितप्रज्ञस्य तथाभासमात्रेण सांसारिकधर्मानुवृ तिरभ्युपेयते एवमालिङ्गशरीरपातात् । विदुषस्तहर्मानुवृ