पत्तेः । मनसैतानिति श्रुतेः । यदि पुनः सुषुप्तवदभोगो भ वेम् । नैषा धृतिरुपपद्यत । न च स शरीरवदुपभोगः शरीराद्युपादानवैयर्थात् । सशरीरस्य तु पुष्कलो भोग इञ्चप्युपपत्तेरित्यनुषज्जनीयम् । तदिदमुक्तं त्राभ्याम् ॥ .
तन्वभवे संध्यवहुपपत्तेः।। १३ ॥
भावे जाग्रद्वत् ॥ १७ ॥
इति ॥
प्रदीपवदावेशस्तथा हि दर्शयति॥१५॥
वस्तुतः परमात्मनो ऽभिन्नोप्ययं विज्ञानात्मा ऽनाद्यवि द्याकल्पितप्रादेशिकान्तःकरणवच्छेदेनानादिजोवभावमापन्नः प्रादेशिकः सन्न देद्दन्तराणि खभावनिर्मितान्यपि नानाप्र देशघर्तीनि सान्तःकरणो युगपदावेद्युमर्हति । न चास्मा न्तरं स्रष्टुमपि ज्यमानस्य सङ्गतिरेकेणानात्मत्वादात्मत्वे वा कर्टकर्मभावाभावाद्वेदाश्रयघादस्य । नाप्यन्तःकरणान्तरं तत्र जति वृज्यमानस्य तदुपाधित्वाभावात् । अनादि ना खल्वन्तःकरणेनैत्यत्तिकेनयमवरुडो नेदानीन्तनेनान्तः करणेनोपाधितया संबन्टुमर्हति । तस्माद्यथा दारुयन्त्रं त प्रयोक्रा चेतनेनाधिष्ठितं सकृदिच्छामनुरुध्यते । एवं निर्मा णशरीराण्यपि सेन्द्रियाणीति प्राप्ते प्रत्यभिधयते ।
शरीरत्वं न जातु "स्याद्भोगाधिष्ठानतां विना ।
स त्रिधेति शरोरत्वमुक्तं युक्तं च तद्दिने ॥
स त्रिधा भवति पञ्चधा .सप्तधा नवधेत्यादिका श्रुति