पि, तवास्माकमपि समानमन्यत्राभिनिवेशांतं । न चैकंस्य प्रतिभाने ऽनाश्वास् इति युक्तम् । नहि बचूनामप्यशानां वि ज्ञानां वा । ऽऽशयदेषक्तां प्रतिभाने युक्त श्राश्वासः । त क्वज्ञानवतश्चापास्तसमस्तदेषस्यैकस्यापि प्रतिभाने युक्त एवाश्वासः । सर्गदिभुवं प्रजापतिदेवर्षीणां धर्मज्ञानवैरा येश्वर्यसंपन्नानामपपद्यते तत्स्वरुपावधारणं, तत्प्रत्ययेन चा वर्वाचीनानामपि तत्र संग्रत्यय इत्युयपत्रं ब्रह्मणः शाखये नित्वं शाखस्य चापैौरुषेयत्वं प्रामाण्यं चेति । वर्णकान्तरमारभते । “अथ वे'ति । पूर्वणाधिकरणेन ब्रह्म स्वरुपलक्षणासंभवाशङ्कां व्युदस्य लक्षणसंभव उक्तः । तस्यैवं तु लक्षणस्यानेनानुमानत्वाशङ्कामपाकृत्यागमेषदर्शनेन ब्र ह्मणि शास्त्रं प्रमाणमुक्तम् । अक्षरार्थस्त्वतिरोहितः । शाखप्रमाणकत्वमुक्तं ब्रह्मणः प्रतिज्ञामात्रेण, तदनेन सू त्रेण प्रतिपादनीय(१)मित्युत्सूर्वं पूर्वपक्षमारचयति भाष्य वारः । “कथं पुनरिति । किमाशेपे । शुद्धबुद्धेोदासी नस्वभावतयेोपेक्षणीयं ब्रह्म भूतमभिदधतां वेदान्तानाम पुरुषार्थेौपदेशिनामप्रयेजनत्वापत्तेः, भूतार्थत्वेन च प्रत्य छादिभिः समानविषयतया लैौकिकवाक्यवत् तदर्थानुवादं कत्वेनाप्रामाण्यप्रसङ्गात् । न खलु लैौकिकानि वाक्यानि प्र माणान्तरविषयमर्थमवबेधयन्ति स्वतः प्रमाणम्, एवं वेदान्ता श्रीत्यनपेशत्वलक्षणं प्रामाण्यमेषां व्याइम्येत। न च तैरप्र माणैर्भवितुं युक्तम् । न चाप्रयोजनैः । स्वाध्यायाध्ययनविधा पादितप्रयेजनक्त्वनियमात । तस्मात्तत्तदिचितकर्मपेशित काददेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वम । यदि त्वसं
(१) सूत्रेणोपपादनीय- पा० १ । २ ! 3 !