ते न तच्छब्देन विरुध्यते, तस्येपासनापरान्समारोपे ण चेपासनाया उपपत्तेरिति । प्रकृतमुपसंहरति । "त- माने"ति । सूत्रेण सिद्वान्नयति । "एवं प्राप्त ,उच्यते” । तत्र समन्वयत ॥ ४ ॥ तदेतद् व्याचष्टे। “तुशब्द” इति । तदित्युत्तरपक्षप्रतिज्ञां विभजते । "तद्भवे"ति । पूर्वपशवादी (१) कर्कशाशयः ष्ट च्छति। “कथम्" । कुतः प्रकारादित्यर्थः । सिद्धान्ती खपक्षे धेरै प्रकारभेदमाड । “समन्वयात्" । सम्यगन्वयः समन्वय स्तस्मात् । एतदेव विभजते । “सर्वेषु दि वेदान्तेष्विति । वेदान्तानामात्यन्तिक (२) ब्रह्मपरतामाचिख्यासुर्बहूनि वा क्यान्युदाहरति । “सदेवे’ति । यतो वा इमानि भूतानीति तु वाक्यं पूर्वमुदाहृतं जगदुत्पत्तिस्थितिनाशकारणमिति चेद स्मारितमिति न पठितम् । येन हि वाक्यमुपक्रम्यते येन चोपसंह्रियते तदेव वाक्यार्थ इति शाब्दः । यथोपशयाः जवाक्ये ऽनूचः पुरोडाशयोमिताशेषसंकीर्जनपूर्वकोपांश याजविधाने सप्रतिसमाधानेपसंद्वारे चापूर्वपंशयाजक र्मविधिपरतैकवाक्यताबलादाश्रिता, एवमत्रापि सदेव संय दमिति ब्रह्मपक्रमात् तत्त्वमसीति च जीवस्य ब्रात्मने पसंचारान् तत्परतैव वाक्यस्य । एवं वाक्यान्तराणामपि पैौर्वापर्यालोचनया ब्रह्मपरत्वमवगन्तव्यम् । न च तत्परत्वस्य दृष्टस्य सति संभवे ऽन्यपरता दृष्टा यक्ता कल्पयितुम् । अतिप्रसङ्गात् । न केवलं कष्टपरता तेषामदृष्टा ऽनुपपन्न
(१) पूर्वपक्ष|-पा० २ ।
(२) ऐकान्तिक-पा० १ । २ । ३ ।