एतत् पृष्ठम् परिष्कृतम् अस्ति

शब्दश्छन्दोऽभिधानार्थ इतिहासाश्रयाः कथाः ।

लोको युक्तिः कलाश्चेति मन्तव्याः काव्ययैर्वशी ॥

(काव्ययैरमी?) ॥९॥

शब्दाऽभिधेये विज्ञाय कृत्वा तहिदुपासनाम् ।

विलोक्याऽन्यनिबन्धांश्च कार्यः काव्यक्रियादरः ॥१०॥

सर्वथा पदमप्येकं न निगाद्यमवद्यवत् ।

विलक्ष्मणा हि काव्येन दुस्सुतेनेव निन्द्यते ॥११॥

अकवित्वमधर्माय व्याधये दण्डनाय वा।

ककवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ॥१२॥

रूपकादिरलङ्कारस्तस्यान्यैर्बहुधोदितः ।

न कान्तमपि निभूषं विभाति वनितामुखम् ॥१३॥

रूपकादिमलङ्कारं बाह्यमाचक्षते परे।

सपां तिड़ां च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम् ॥१४॥

तदेतदाहुः सौशब्द्यं नाऽर्थव्युत्पत्तिरीदृशी ।

शब्दाभिधेयालङ्कारभेदादिष्टं इयं तु नः ॥ १५ ॥

शब्दार्थों सहित काव्यं गद्य पद्यञ्च तद्विधा ।

संस्कृतं प्राकृतं चान्यदपभ्रंश इति त्रिधा ॥१६॥

वृत्तदेवादिचारतशेसि चोत्पाद्यवस्तु च । कलाशास्त्राश्रयञ्चेति चतुध भिद्यते पुनः ॥१७॥


१ काव्ययैलीमी-ग।

२ कयुतं १ (संस्कृत)-ग। अस्य अपरं नाम काव्यालङ्कारः इति।