एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भामहालङ्कारेशैषो हिमगिरिस्त्वं च महान्त गुरवः स्थिराः ।। यदलघितमर्यादाश्चलन्ती विभृथे क्षितिम् ॥२८॥ अधिकारापेतस्य वस्तुनोऽन्यस्य या स्तुतिः । अप्रस्तुतप्रशंसेति सा चैवं कथ्यते यथा ॥ २९ ॥ प्रीणितप्रणयि स्वादु काले परिणतं बहु । विना पुरुषकारेण फलं पश्यत शाखिनाम् ॥ ३० ॥ दूराधिकगुणस्तोत्रव्यपदेशेन तुल्यताम् ।... किञ्चिडिधित्सोय निन्दा व्याजस्तुतिरसौ यथा ॥३१॥ रामः सप्ताभिनत सा(ता?)लान् गिरि क्रौञ्च भृगूत्तमः। शतांशेनापि भवता: किं तयोः सदृशं कृतम् ॥३२॥ क्रिययैव विशिष्टस्य तदर्थस्यापदर्शनात् ।। ज्ञेया निदर्शना नाम यथेववतिभिर्वना ॥ ३३ ॥ अयं मन्दद्युतिभस्वानस्तं प्रति थियासति ।। उदयः पतनायेति श्रीमती बोधयन्नरान् ॥ ३४ ॥ उपमानेन तद्भावमुपमेयस्य साधयत । यो वदत्युपमामेतदुपमारूपकं यथा ॥ ३५ ॥

समग्रगगनायाममानदण्डो रथाङ्गिनः । . पादो जयति सिद्धस्रीमुखेन्दुनवदर्पणः ॥३६॥ .

उपमानोपमेयत्वं यत्र फ्ययतो भवेत् । . १ विन्नति-क।