सर्गबन्धोऽभिनेयार्थं तथैवाख्यायिकाकथे ।
अनिवडच्च काव्यादि तत्पुनः पञ्चधोच्यते ॥१८॥
सर्गबन्धो महाकाव्यं महताश्च महत्व यत् ।
अंग्राम्यशब्दमयञ्च सालङ्कारं सदाश्रयम् ॥ १९ ॥
मन्त्रदृतप्रयाणाजिनायकाभ्युदयैश्च यत् ।
पञ्चभिः सन्धिाभर्युक्तं नातिव्याख्येयमृद्धिमत् ॥ २० ॥
चतुर्वगाभिधानेऽपि भूयसार्थोपदेशकृत् ।
युक्तं लोकस्वभावेन रसैश्च सकलैः पृथक् ॥ २१ ॥
नायकं प्रागुपन्यस्य वैशवीर्यश्रुतादिभिः ।
न तस्यैव वधं ब्रूयादन्योत्कर्षाभिधित्सया ॥ २२ ॥
यदि काव्यशरीरस्य न से व्यापितयेष्यते ।
‘ने चाभ्युदयभाक्तस्य मुधादौ ग्रहणस्तौ ॥ २३ ॥
नाटकं द्विपदीशम्यारासकस्कन्धकादि यत् ।
उक्तं तदभिनेयार्थमुक्तोऽन्यैस्तस्य विस्तरः ॥ २४ ॥
प्रकृतनाकुलश्रव्यशब्दार्थपदवृत्तिना ।
गद्येन युक्तोदात्ता सच्छ्वासाख्यायिका मता॥२५॥
वृत्तमाख्यायते तस्यां नायकेन स्वचेष्टितम् ।
वक्त्रं चापरवक्त्रञ्च काले भात्यार्थशंसि च ॥ २६ ॥
१ मन्त्रि-क। २ ग्रहणं स्तवे-ग। ३ नारकं-ध। ४ प्रसृता-ख, प्रकृता (सृता)-घ । ५ स्वधेष्टितम्-घ ।अस्य अपरं नाम काव्यालङ्कारः इति।