एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः परिच्छेदः । । न नितान्तादिमात्रेण जायते चारुता गिराम् ।। वक्रोऽभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिः ॥ ३६ ॥ नेयार्थं क्लिष्टमन्यार्थमवाचकमयुक्तिमत् । गूढशब्दाभिधानच्च कवयो न प्रयुञ्जते ॥ ३७ ॥ नेयार्थ नीयते युक्तो यस्यार्थः कृतिभिबलात् ।। शब्दन्यायानुपारूढः कथञ्चित स्वाभिसन्धिना ॥ ३८ ॥ मायेव भद्रेति यथा सा चाऽसाध्वी प्रकल्पना । । वेणुदाकेरिति च तान्नियन्ति वचनादिना ॥ ३९ ॥ क्लिष्टं व्यवहितं विद्यादन्यार्थविगमें यथा । विजहस्तस्य ताः शोक क्रीडायां विकृतच्च तत् ॥४०॥ हिमापहामित्रधरैव्याप्तं व्योमेत्यवाचकम् । साक्षादरूढं वाच्येऽर्थे नाभिधानं प्रतीयते ॥ ११ ॥ अयुक्तिमद्यथा दूता जलभृन्मारुतेन्दः ।। तथा भ्रमरहारीतचक्रवाकशुकादयः ॥ ४२ ॥ अवाचो व्यक्तवाचश्च दृस्देशविचारिणः । कथं दूत्यं प्रपद्येन्निति युक्तयां न युज्यते ॥४॥ यदि चोत्कण्ठया यत्तदुन्मत इव भाषते ।। तथा भवतु भूम्नदं सुमेधोभिः प्रयुज्यते ॥ १४ ॥ १ (दन्याथै विगमे यथा १)-ग। ग, जलभृन्मात्र (६१) : _ _ _ ३ जलभृन्मात्रिकेच १ (मारुत पुन-क।अस्य अपरं नाम काव्यालङ्कारः इति।