एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। प्रथमः परिच्छेदः । ७ यथाऽजिह्रददित्यादि श्रुतिकष्टञ्च तद्विदुः ।। न तदिच्छन्ति कृतिनो गण्डमप्यपरे किले ॥ १३ ॥ सन्निवेशविशेषातु दुरुक्तमपिं शोभते । नीलं पलाशमाबडमन्तराले स्रजामिव ॥ ५४॥ किच्चिदाश्रयसौन्दर्याद धत्ते शोभामसाध्वपि । कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ ५५ ॥ आपाण्डुगण्डमेतत्ते वदनं वनजेक्षणे । सङ्गमापाण्डशब्दस्य गण्डः साधु यथोदितम् ॥५६॥ अनयाऽन्यदपि ज्ञेयं दिशा युक्तमसाध्वपि । यथा विक्लिन्नगण्डान करिणां मदवारिभिः ॥१७॥ मदक्लिन्नकपोलानां हिरदानां चतुश्शती ।। यथा तद्वदसाधीयः साधयश्च प्रयोजयेत् ।। ५८ ॥ एतद् ग्राह्य सुरभि कुसुमं ग्राम्यमेतन्निधैर्य धत्ते शोभां विरचितमिदं स्थानमस्यैतदस्य ।। मालाकारों रचयति यथा साधु विज्ञाय माला योज्यं काव्येष्वत्रहितधिया तहदेवाऽभिधानम् ॥५९॥ इति श्रीभामहालङ्कारे प्रथमः परिच्छेदः । १ सुदंवारिभिः-घ।अस्य अपरं नाम काव्यालङ्कारः इति।