पृष्ठम्:भामिनीविलासः.djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
भामिनीविलासे

 गरिमाणमिति । निर्विवेकाय यूनां धैर्याय ते नम इति योजना । अत्र प्रकृत- धैर्यस्यान्यदीयत्वेनाप्रत्यक्षत्वेऽपि युष्मच्छब्दचतुथ्र्येकवचनादेशप्रयोगस्तु वक्रयाः स्वलावण्यादिगर्वप्रमादादेव बोध्यः । निर्विवेकत्वे हेतुः शेषेण । गरिमाणं स्वनिष्ठाच- लत्वमहत्त्वादिधर्मम् । अर्पयित्वा कुरङ्गदृशां कुचतटाय दत्त्वेत्यर्थत एव फलति-- कुरङ्गेति । कुचेति । लघिमानं तदपेक्षयापि लघुत्वम् । स्वीकुर्वत इति योजना। अयमाशयः–यदैव तरुणानां मनस्यस्या मृगाक्ष्याः कुचौ कनककमलकोरकाकारा- विति तन्महत्त्वविषयको विकारः संपद्यते तदैव महत्त्वभङ्ग इति । एतेन मत्कुच- सौन्दर्यदर्शनेन सुदर्शनकरोऽपि त्वं मोहितोऽसीयहमेव धन्येति ध्वन्यते । अत्र सौन्दर्यगर्विता मध्या परकीयैव नायिका । अनुरक्तो नायकः । संभोगः शृङ्गारः । परिवृत्तिरलंकारः । तदुक्तम्-‘परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः । जग्रा- हैकं शरं मुक्त्वा कटाक्षान्स रिपुश्रियम् ॥” इति ॥ एवं विनोदेन परितुष्टः श्रीकृष्णोऽपि राधिका स्तौति न्यञ्चतीत्यादिद्वाभ्याम्---

न्यञ्चति वयसि प्रथमे समुदञ्चति तरुणिमनि सुदृशः ।
दधति स्म मधुरिमाणं वाचो गतयश्च चारुतां च भृशम् ॥ ४५ ॥

न्यञ्चतीति । हे राधे, सामान्यतः सुदृशः सुन्दर्याः प्रथमे बाल्याख्ये वयसि न्यच्चति न्यग्भावं हासे गच्छति सति । तथा तरुणिमनि यौवने समुदञ्चति सम्यक्प्रकाशमाने च सति । वाचो वाण्यः । अर्थात्तस्या एव । मधुरिमाणं दधति स्म धारयामासुरेव। तथा गतयोऽपि मरालदन्तावलादिवत्सविलाससालसगमान्यपि। भृशं चारुतां रम्यतां दधति स्मेयनुकृष्य योज्यम् । ‘विभ्रमाश्च' इति पाठे विलासा अपीत्यर्थः । तथा च गतिमाधुर्यं तु प्राग्वदेव। विलासमाधुर्यं तु सकलयुववशी. कर्तृत्वं बोध्यम् । तस्मात्रैलोक्यसुन्दर्यास्तव तु वागादौ तत्कैमुत्यसिद्धमेवेति भावः । तेनैवमेव विनोदोक्तयस्त्वया भूयो वक्तव्या इति द्योत्यते । परिकराङ्कुरोऽलंकारः ॥

निःसीमशोभासौभाग्यं नताङ्ग्या नयनद्वयम् ।
अन्योन्यालोकनानन्दविरहादिव चञ्चलम् ॥ ४६॥

 निःसीमेति । निःसीममनन्तं शोभासौभाग्यं यस्य । अमितसुषमैश्वर्यमित्यर्थः । एतादृशं तन्वयाः कृशाझ्या नयनद्वयम् । स्पष्टमन्यत् । उत्प्रेक्षालंकारः । अन्य- दुभयत्रापि प्राग्वदेव ॥ ।

 अथैकोनचत्वारिंशच्छोकोक्तरीत्या सीतयातीव रति निराशतां नीतः श्रीरामस्त- त्समक्षमेव तत्सखीं प्रागनुभूतं तच्छीलोत्कर्षम् , पूर्वोक्ताव्यवहितश्लोकद्वयेन वाग्ग-