पृष्ठम्:भामिनीविलासः.djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
भामिनीविलासे

 एवं श्रीरामेण सीतायाः श्रीकृष्णेन राधाया वा ज्ञातेऽप्युक्तचेष्टया प्रसादे स्पष्टे मिष्टभाषणादिना तस्यादृष्टवात्तद्दार्थ्यपरीक्षणार्थं सत्यप्रतिज्ञत्वेन तत्कालमेव चुम्ब- नायकृत्वैवान्यत्र गमने कृते सति संभोगारम्भार्धभङ्गवशादतुलकामाकुलया तयैव तदानयनार्थं प्रेषिता खसखी तं प्रति तदवस्थां कथयति-

मानपराग्वदनापि प्रिया शयानेव दयित करकमले।
उद्धेल्लद्भुजमलसग्रीवाबन्धं कपोलमाधत्ते ॥ ४९ ॥

 मानेति । हे दयित । मत्सखीप्रियेत्यर्थः । प्रिया । तावकीति शेषः । रत्यु- त्पादनायेदं पदद्वयम् । मानेति । शयानेव । एतेनातिशैथिल्य सूच्यते । करेति । खहस्तपद्म इति यावत् । उद्वेल्लदिति । उद्वेल्लनुत्कर्षण वक्रीभवन्भुजो येन तम् । एतेनोक्तशैथिल्यमेव पोषितम् । अलसेति । अलसस्तत्सूचकारशाली ग्रीवाबन्धो (न्धः) के (कः) स्थिति विशेषो येन तम् । एतादृशम्। स्पष्टमितरत् । तस्मात्त्वयास द्रुतमुपगन्तव्येति तात्पर्यम् । अत्र निरुक्तावस्थया चिन्तातिशयो व्य(ज्येते) इह विरहिणी खकीया दिरेव नायिका । चतुरो नायकः । विप्रलम्भः शृङ्गारः। उपमादिरलंकारः ॥

 एवं सखीवचनं श्रुत्वा श्रीरामः सीतां श्रीकृष्णो वा राधामभ्युपगम्य तां स्तौति--

लोचनफुल्लाम्भोजद्वयलोभान्दोलितैकमनाः ।
कस्तुरीतिलकमिषादयमलिकेऽलिस्तवोल्लसति ॥ ५० ॥

 लोचनेति । अयि प्रिये, अयं प्रत्यक्षः। तव अलिके। ललाटमलिकम्” इत्यम- राल्ललाट इत्यर्थः। कस्तूरीति। मृगमदविशेषकमिषादिति यावत् । अलिभ्रमर उल्लसति मन्मनसि प्रतिभातीत्यन्वयः । तत्र हेतुः-पूर्वधैिन । लोचने त्वचेचे एव फुल्ला- म्भोजे विकसितासिताब्जे तयोर्यद्वयं तत्रान्दोलितं किं तत्र गन्तव्यमत्र वेति संदेह- दोलाधिरूढमेकं मनो यस्येति तथा। एवं चोभयत्राप्याशापाश पारवश्यान्मध्य एवा- वस्थित इति यावत् । एतेन तात्कालिकप्रसन्नदृष्टित्वं तस्यां ध्वनितम्। तत्र च खोप- गम एव हेतुरिति द्योत्यते । अत्र प्रसन्नैव स्वकीया परकीया वा मध्या नायिका । अनुकूलो नायकः । संभोगारम्भः शृङ्गारः । कैतवापत्यादिरलंकारः ॥ .

 अथैवं स्तुतावप्यत्र ‘भोः प्रिये, अयि प्रेयसि, हे कान्ते, इत्यादि संबुद्ध्यभावा- द्वाक्यस्य सामान्योक्यापत्तेः पुनरपि रोषवशायां सीतायां राधायां वा सत्यां सख्या