पृष्ठम्:भामिनीविलासः.djvu/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
शृङ्गारोल्लासः

बलादेव तल्पे निद्रापितायामपि श्रीरामः श्रीकृष्णो वा नवोढानिदर्शनेन तत्सखीं प्रति ब्रूते-

अधिरजनि प्रियसविधे कथमपि संवेशिता गुरुभिः ।
किं भवितेति सशङ्क पङ्कजनयना परामृशति ॥ ५१ ॥

 अधिरजनीति। हे सखि,काचिन्मुग्धा गुरुभिः श्वश्रूप्रभृतिभिः। प्रौढस्त्रीज- नै रित्यर्थः । अधिरजनि । रात्रावित्यर्थः । प्रियेति । तत्कान्तान्तिक इत्यर्थः । कथ- मपि यथाकथंचित् । अतिबलात्कारेणेत्यर्थः । संवेशिता निद्रापिता । अत एव । उत्तरार्ध सरलमेव । इतः परं किं भविता सुरतस्य जन्मप्रभृति कदाप्यननुभूतवा- कथै भविष्यतीति सशङ्क संशयसहितं यथा स्यात्तथेत्यर्थः । पङ्कजेति । रात्री कमलानां मुकुलीभावाद्भीत्यादिना मुकुलितनेत्रा सती परामृशति यथा मनसि विचारयति तथेयमपीत्यर्थः । एतेनोपहासः सूचितः । तस्मादतीतकैशोर्यायास्त्व- द्वयस्याया अस्या इदमनुचितमेवेत्याकूतम् । अत्र कुपिता नायिका परकीयादिरेव । खिन्नो नायकः । विप्रलम्भः शृङ्गारः । काव्यलिङ्गादिरलंकारः ॥

 ततस्तस्यां रजन्यां तथैव गतायां सत्यामन्येद्युरपि प्रदोषे काचित्परमप्रियव- यस्या सीतां राधां वा प्रतिबोधयति-

चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः
प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा ।
एतत्वां प्रति वेदयामि मम चेदुक्ति हितां मन्यसे
मुग्धे मा कुरु मानमाननमिदं राकापतिजैष्यति ॥५२॥

 चिन्तेति । योजनं तु यथाश्रुतमेव । कामस्य सचिन्तत्वं वन्मानापनोदस्य दुःसाध्यत्वाद्बोध्यम् । इदमेव सख्यादावपि । आस्वामियं वार्ता । बाहुल्यवशादी- दास्यं द्योत्यते । तृतीयपादेनापक्षपातित्वं ध्वन्यते । किं तदित्यत्राह-मुग्धे इति चरमचरणेन। राकेति । पूर्णचन्द्रः । माने हि त्वन्मुखे रोषकषायवशात्सकलङ्कोs- प्यसविप्रसन्नमिदं खप्रसादतः पराभविष्यत्येवेति भावः। एतेन भूरिकालमयमेताह- शमवसरं लक्षीकृत्य परिभ्रमति, अतोऽसावस्मै त्वया नैव देय इति तत्सौन्दर्यस्तो व्यज्यते । एवं मनसिजसखीप्राणेशपदैः स्थूलसूक्ष्मशरीरद्वयाधिष्ठातृणामेतेषां परि- तोष एव श्रेयस्कर इति द्योत्यते । तस्माहुतमभिसर्तव्यमेवेयाकूतम् । अत्र मानवती स्वकीयादिरेव नायिका । प्रतीप विशेषः काव्यलिङ्ग चालंकारः । शेषं तूकमेव ॥