पृष्ठम्:भामिनीविलासः.djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
शृङ्गारोल्लासः

मुग्धे मानमपाकरोषि न मनागद्यापि रोपेण ते
हा हा बालमृणालतोऽप्यतितरां तन्वी तनुः क्षाम्यति ॥५४॥

 आयातैवेति । हे मुग्धे। एतेन सौन्दर्येऽपि मौढ्यं ध्वन्यते । निशा रात्रिरायातैव प्रासैव । किं ततः स्वपिष्याम्येवाह मेकाकिन्येवेति चेताह-निशापतीति । चन्द्र- किरणैः । दिशाम् । प्राच्यादिहरितामित्यर्थः । अन्तरम् । अवकाश जातमित्यर्थः । पूर्ण व्याप्तम् । ननु किमेतावतेत्यत आह–भामिन्य इति । कोपखभावा अपि कामिन्य इत्यर्थः । एतेन संप्रदायः सृचितः । मयापि नैव भूषणानि परित्यक्तानी- त्यत आह-उत्तरार्धशेषेण । त्वं वद्यापि मनागपीपदपि मानं रूपादिगर्वं नापाक- रोषि नैव दूरीकरोषीति संबन्धः । अस्तु नाम ममैवम् , किं तेन तवेत्याह-रोघे. ऐति । ते तव । बालेति । सूक्ष्मविसाद पीयर्थः । अतितरामतुलं तन्वी स्वाभावि- ककृशापि तनुः । रोषेण कोपेन । हा हेति खेदे। क्षाम्यत्यतिकृशवमेतीति योजना। ‘ताम्यति' इति पाठे संतप्ता भवतीत्यर्थः। तस्मात्त्वयैवं नैव कार्यमिति तात्पर्यम् । अत्र परिकराङ्कुरोऽलंकारः । शेपं तूक्तमेव ॥

एवमप्यप्रसन्नां सीतां राधां वा प्रति पुनस्तत्सख्येव प्रवसत्पतिकायाः कस्याश्चि- दन्यस्या नायिकायाः प्रियसीहार्दाधिक्यध्वनकव्यापारजातं कथयन्ती सतीत्वं तु तदधिकवयोवत्यपि मया भूयो विवोधित सत्यपि नाद्यापि मानमवमानयसीयतो वन्द्येवासीत्युपालम्भं व्यनक्ति-

वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्प जने
केलीमन्दिरमारुतायनमुखे विन्यस्तवक्राम्बुजम् ।
निःश्वासग्लपिताधरं परिपतद्वाप्पाईवक्षोरुहा
वाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥५५॥

 वाच इति । भो सखि, अत्र प्रतिवेशिवेश्मनि । प्रयाणसमये तत्कान्तस्य नगरान्तरं प्रति प्रवासकाल इयर्थः। जने मित्रादिपरिजने । माङ्गलिकीः । सुमुहूर्त- मङ्गलोपयुक्तवस्त्यादिशब्दवतीरिति यावत्। एतादृशीर्वााचो वाणीरनल्पं बहुलं जल्पति सुव्यक्तं वदति सति । केलीति । चरमभूमिकागतरत्यागारगवाक्षमध्य इत्यर्थः । विन्यस्तेति । विन्यस्तं कान्तदर्शनं यथा स्यात्तथावलक्षणेन विशेषेण न्यस्तं स्थापित वक्राम्बुजं मुखकमलं यथा भवति तथेत्यर्थः। ‘विन्यस्य' इति कचिल्लयबन्तपाठोऽपि । तत्र वक्राम्बुजं विन्यस्येति योज्यम् । ‘विन्यस्तवक्राम्बुजा' इति पाठे तु विन्यस्तं