पृष्ठम्:भामिनीविलासः.djvu/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
शृङ्गारोल्लासः

सौषमशालित्वं सूच्यते । दारिद्यं श्रीशून्यत्वम् । भजते । प्राप्नोतीत्यर्थः । त्वत्प्रसा- दादित्योदयेन त्वन्मुखकमले विकासश्रीभाजि कलानिधेरपीन्दोर्निःश्रीकत्वं युक्तमेवे- त्याकूतम् । एवं च तृतीयपदार्थोऽपि संगतः। तस्या यदि चन्द्रादौ दारिद्यादि तदा रात्रौ मित्रालोकराहित्यात्तमःप्राचुर्यप्रयोजकं तर्हि किं मामक स्मितमिति शङ्कोपशा- मकत्वात्। तथा हि । यद्यपि चन्द्रादिषु दारिद्यादिसत्त्वेऽपि वन्मुखकमलान्तर्गतकु- न्दकलिकायमानकतिचिद्विजराजराजीयालौकिकचन्द्राङ्कुर्दिङमण्डलमण्डनमखण्डि- तमेवेति । एवं राकांपूर्णनिशाकरपूर्णमास्यधुनेति सर्वत्र योज्यम् । म्लायति । ग्लानिं प्राप्नोतीति यावत् । नहि धर्मधूनने धर्मिधौरेयता नाम । अतएव स्वैरमित्यादिद्वि- तीयः पादः । स्वरमुन्मीलतीति संबन्धः । निरर्गले प्रसरतीत्यर्थः । तृतीयपादस्तु विवृतप्राय एव । सुहृदां माइक्सखीजनप्रभृतीनां सरसचेतसामित्यर्थः। अत्र त्रिपाद्यां सर्वत्र वर्तमानार्थकाख्यातैश्चतुर्थचरणग्रथितकारणैककालिकत्वमुक्तकार्याणां ध्वन्य- ते। तस्मादुक्तानेकप्रयोजनं सप्रसादमन्दहसनं भवत्या विधेयमेवेत्याशयः। इह मान- वती प्राक्तनैव नायिका नायकश्च रसोऽपि । लुप्तोपमा प्रतीपविशेषोऽक्रमातिशयो- क्तिश्चालंकारः । तदुक्तम्-‘अक्रमातिशयोक्तिः स्यात्सत्वे हेतुकार्ययोः । आलि- इन्ति समं देव ज्यां शराश्च पराश्च ते ॥' इति । वदनेति यतिभङ्गस्त्वनवधान है- तुभूताद्वयाः सख्यास्तत्प्रसादनलल्यादेवेति दिक् ॥ एवं प्रार्थनेऽप्यपरित्यक्तमानायां सीतायां राधायां वा सत्या प्रकृतैव तत्प्रियसखी निकटवर्तितत्सख्यन्तरं प्रति वक्ष्यमाणलक्षणायामस्यां वसन्तलक्ष्म्यां सत्यां कथमियं मत्सखी मानैकपरवशा प्राणधारणं करिष्यतीति खचिन्तासूचनतोऽनयाज्झटिति । मानापनोदनपूर्वकं प्रत्युपगन्तव्यमेवेति व्यनक्ति-

पाटीरद्वभुजङ्गपुंगवमुखायाता इवातापिनो
वाता वान्त दहन्ति लोचनममी ताम्रा रसालमाः ।
एते हन्त किरन्ति कृजितमयं हालाहले कोकिला
बाला बालमृणालकोमलतनुः प्राणान्कथं रक्षतु ॥ ५७ ॥

 पाटीरेति। पटीरो मलयाचलः। तस्यायं च चासौ । ‘दुदुमागमाः' इत्यमरा- वृक्षुः । अर्थाचन्दनतरुः बहुवचनं वा । तदीया ये भुजंगमपुंगवाः ‘पुंगवर्षभ जराः' इति श्रेष्ठवाचकशब्देष्वमरे पुंगवपदोकेः सर्पश्रेष्ठास्तेषां मुखानि तेभ्य आयाता इव समागताः किमित्यर्थः । अत एवातापिनः । समान्ताद्विरहिणीतापजनका