पृष्ठम्:भामिनीविलासः.djvu/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
शृङ्गारोल्लासः

करणमपि । न तु चन्द्रादिदिदृक्षया केवलं चक्षुरेवेत्यर्थः । तेन तदौत्कण्ठ्ये सति तदधीनसकलेन्द्रियवैकल्यं व्यज्यते । उन्निदं जागरूकम् । सावधानमिति यावत् । आतन्वती विस्तारयन्तीति तत्त्वम् । तत्रापि आ समन्तादित्यर्थः । एवं चास्याम- यौत्सुक्यजनकत्वं योयते । एतादृशी निशा रात्रिः आयातैव। प्राप्तैवेत्यर्थः । न खायास्यति क्षणान्तरे। एतेन संदीप्तभवनकूपखननन्यायेनोपायवैधुर्यं ध्वन्यते । अतो मे मम हृदि न तु बहिः । एष साक्षिप्रत्यक्षो मानो ‘रूपादिना निजोत्कर्षाद्र्वोऽन्य- स्यावहेलनम् । मत्सौन्दर्यानुसंधानान्न ते गोवर्धन व्यथा ॥” इति मदीयसाहित्य- सारनिरुक्तलक्षणादेर्गवापरपर्यायस्य मनस्योद्दामत्वप्रयोजकधन्यत्वाधायकवृत्तिविशे- घस्यैव विवक्षितत्वाद्युक्तमेव तस्योक्तप्रत्यक्षवम् । संप्रतीदानीम् । तेन कालान्तरे तत्संभवेऽपि प्रकृतकालिकत्वेन पुनस्तदनागतेस्तद्विषयकचिन्तावश्यकत्वं व्यज्यते। निरातङ्क रुक्तापशङ्कास्वातङ्कः' इति कोशान्निःशकं यथा स्यात्तथेत्यर्थः । एतेन संस्कारात्मना तत्स्थितिसंभवेऽपि व्यक्तरूपेण तदसंभव एवेति योल्यते । कथं स्थास्यति कथमपि नैव तत्स्थितिसंभावनाशापीत्याशयः । इमं निरुतप्रकारकम् ।। ऊहेति तर्कवितर्कम् । सरोजेति । पद्ममुखीत्यर्थः । तेन तदानीं सायंकालत्वेन कमलानां मुकुलीभवनोन्मुख्यादुक्तचिन्तापारवश्येन तस्यां म्लानास्यत्वं सूचितम् । यावद्यत्कालावच्छेदेन । विधत्तेतरां ‘विभुर्विजयतेतराम्' इत्यादिवदत्यन्तं करोती. त्यर्थः । तावत्तत्कालावच्छेदेनेव । कामेति । स्मरनरपति सितातपत्रशोभासंभार मि• त्यर्थः । एतादृशं विधोश्चन्द्रस्य विम्वं वभासे प्रकटीवभूवेयन्वयः । अत्रातपत्रेय नेन पूर्णत्वं व्यज्यते । इह मानवती सचिन्ता स्वकीया परकीया वा मध्यैव नायिका । विप्रलग्भः शृङ्गारः । निरेति यतिभङ्गोऽपि वक्या रमावेशाज्ञव दोषाय। इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् । दीपमुद्योजयेद्यावनिर्वाणस्तावदेव सः ॥” इत्युक्तलक्षणो विषादनाख्यः काव्यलिङ्गादिश्चालंकारः । “सुषमा परमा शोभा' इत्यमरः ।।

 इत्थं संजाते चन्द्रोदये धैर्य धर्तमशक़वाना सीता राधा वा श्रीरामं श्रीकृष्ण वाभिसृत्य यथेच्छ निशि नानाविधविलासैः क्रीडित्वा संजातेऽपि प्रभाते प्राक्तन: भूरिकालिक विरहाकुलत्वेन तत्राप्यतृप्यमाना वस्याः पद्मिनीत्वेन दिवा रमि प्रिय- त्वात्तस्याः तत्कालज्ञानप्रागभाव परिपालनाय तल्लोचनसंछादनलीला संपादयन्त्यपि तेन परमचतुरेण कोमलपरिमलशालिमन्दानिलादिना विज्ञाते सति प्रातःकालेऽसौ निफलितप्रयत्नैव संपन्नेति कविर्व्य्येनक्ति--