पृष्ठम्:भामिनीविलासः.djvu/११

एतत् पृष्ठम् परिष्कृतम् अस्ति
अन्योक्त्युल्लासः

जम् ॥' इति स्मृतेर्मृगयन्त्यन्वेषयन्ति सदसद्वस्तु विचारयन्ति ते मृगा ब्राह्मणास्तान्पाति त्रिःसप्तवारं क्षत्रक्षपणपूर्वकं पृथ्वीप्रदानेन पालयतीति तथा । श्रीमत्परशुराम इत्यर्थः । नखानां न विद्यते खमाकाशपदवाच्यमवकाशजातं येषां ते तथा । वध्यराहित्येन निरवकाशानां शराणामित्यर्थः । ननु कुत एवमिति चेत्तत्राह--दिगन्त इति पूर्वार्धेन । करटिन ऐरावताद्यष्टदिग्गजोपलक्षिता जहत्स्वार्थलक्षणया तस्वामिन इन्द्रादिलोकपाला इत्यर्थः । तेषां मदमलिनगण्डत्वं तु मदजन्यस्वेदादेव बोध्यम् । एवं करिण्यः करा राजग्राह्यनियतधनभागास्ते विद्यन्ते येषां नृपणां तेषां स्त्रिय इत्यर्थः । खनिहतराजरमण्य इति यावत् । तद्वन्मृगानिरुक्तव्युत्पत्त्या विचारशीला जनकादिक्षत्रिया इत्यर्थः । इदं हि श्रीमत्परशुराम विजयोत्तरं खगतमेव कश्यपादिसप्तर्षिवचनम्। उक्तार्थमेवान्यत् । पक्षे गोपीसान्त्वनार्थं भगवता प्रेषितमुद्धवं प्रति राधिकावाक्यमिदम् । तथा हि । हे उद्धव, अयमस्मद्बुद्धिस्थत्वेन प्रत्यक्षः । एतेन प्रीत्यतिशयः सूचितः । मृगेति । मृगो हरिणस्तद्वत्पतिः । स यथा वन एव प्रायः क्रीडति तद्वदयं श्रीकृष्णो वृन्दावन एवास्मद्भर्ता । न तु ग्रामादौ प्रसिद्धस्तथेत्यर्थः । अस्मज्जारः । श्रीकृष्ण इति यावत् । एवं चास्मान्वञ्चयित्वा गतस्तस्येदं वक्ष्यमाणफलमित्याकूतम् । उत्तरार्धशेषस्तु यथाश्रुत एव । तदेतत्कालावच्छेदेनास्मिल्लोके मादृग्विलासास्पदं तस्य नास्त्येवेति भावः । तदेवोपपादयति-- दिगन्त इति । मदेति । मदेन मृगमदेन मलिनाश्चित्रितत्वेन श्यामा गण्डाः कपोला यासां तास्तथा । कस्तूरीकलुषितकपोला इत्यर्थः । एतादृशाः करटिनः करटाः पूर्वोक्तविश्वान्निन्द्यजीविनः शतशोऽसुराः सन्ति यस्येति स तथा । अनेकदुष्टासुरचमूनायकस्य । भौमासुरस्येति यावत् । तेन स्वगृहे रोधितत्वेन तत्संबन्धन्यः करिण्यः करशब्दितबलिप्रहणशालिन्योऽनेकराजानां षोडशसहस्रसंख्याकाः कन्यका इत्यर्थः। तास्तु निरुक्तरोधनवशात्कारुण्यास्पदं यथा स्यात्तथा दिगन्ते क्वचिद्दिक्प्रान्ते श्रूयन्त इति यावत् । तस्मात्ता अपि न सद्यः संभोगार्हा भवन्तीति भावः । तथा मृगा मृगयन्ति राधादिगोप्युपभोग्यत्वकीर्तिश्रवणेन श्रीकृष्णमन्वेषयन्तीति मृगाः । कुब्जादिमथुरानार्य इत्यर्थः । तास्त्वसमशीलाः सामान्यवनितात्वेनातुल्यस्वभावाः खलु । तस्मात्तासु तु पुरुषोत्तमस्य भगवतः कदाप्यनुचित एव विहार इति रहस्यम् । एवं च युक्तमेवास्यास्मान्वञ्चयतः संभोगस्थलराहित्यमधुनेति तत्त्वम् । अत्र प्रथमतृतीयचतुर्थार्थेषु युद्धवीरः, तथा द्वितीये पाण्डित्यवीरः, पञ्चमे विप्रलम्भकारानुप्राणितः सौन्दर्यवीरश्च रसः । अर्थचतुष्टयेऽपि धीरो