पृष्ठम्:भामिनीविलासः.djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
भामिनीविलासे

प्रभातसमयप्रभा प्रणयिनी हुवाना रसा-
दमुष्य निजपाणिना दृशममीलयल्लीलया ।
अयं तु खलु पद्मिनीपरिमलालपाटञ्चरै-
ररेरुदयमध्यगादधिकचारुतैमरुतैः ॥ ५९॥

 प्रभातेति। प्रणयिनी प्रेयसी । सीता राधिका वेत्यर्थः । प्रभातेति । प्रातःका- लीनसूर्यदीधितिमित्यर्थः । रसात् । शृङ्गारादी रसे वीर्ये गुणे रागे द्रवे रसः' इति कोशात्सुरतानुरागाद्धेतोरिति यावत् । हुवानापलपमाना सतीत्यर्थः । अमुष्य प्रकृ- तस्य श्रीरामस्य श्रीकृष्णस्य वा दृशं दृष्टिं लीलया । शृङ्गारचेष्टाविशेषेणेत्यर्थः । निजेति । स्वकरकमलेनेति यावत् । अमीलयदाच्छादयामासेति संबन्धः । अयं तु प्रकृतनायकस्तु । पद्मिनीति । पद्मिनीनां कमलिनीनां ये परिमलाः सूर्योदयवशसं- पन्नविकासलेशजन्यसुगन्धास्तेषां या आलयः पयः । एतेन वक्ष्यमाणमारुतेषु सौगन्ध्याधिक्यं ध्वन्यते । तासां ये पाटचराश्चोरा इवापहर्तारस्तरित्यर्थः । अत एव -अधिकेति । अधिका लोकोतरा चारुता शीतमन्दसुगन्धित्वरूपा रमणीयता येषां तैरित्यर्थः । एतादृशैमरुतैः पवनै रवेः सूर्यस्योदयमध्यगाद्वबुधे खल्विति योजना। एवं च तद्यत्नवैफल्यमेव बभूवेति भावः । ‘प्रणयिनि' इति सप्तम्यन्तपाठे पञ्चम्य- न्तरसपदेन संबन्धे कान्तविषयकानुरागवशादित्यर्थसंभवेऽपि कर्या नायिकाया अध्याहारापत्तिः । एवं ‘प्रणयनिहुवाना' इति समस्तपाठेऽपि प्रणयेन प्रेम्णा निहु- वाने ति व्युत्पत्तिसंभवेऽपि रसादित्यत्र पौनरुत्यापहृत्यै संभोगशृङ्गाररसाद्धेतोरि- त्यर्थकरणेऽपि च तदापत्तिदुवीरैवेति बोध्यम् । एवं चोकपाठ एव श्रेयान् । तथाच प्रणयिनीत्वादेवोक्तहड्नीलने प्रवृत्तिरिति तत्त्वम् । यदा त्वलयो भृङ्गा एव पाटचरा इति व्याख्यायते तदा माकारीणि सूर्योदयप्रभाजनकानि रुतानि शब्दितानि येषां तैरिति तद्विशेषणमेव ज्ञेयम् । अन्यथा समुचायकश्चकारादिरध्याहार्यः स्यात् । अत एव अधिकेति । एवं पद्मिनीनां स्त्रीविशेषाणां परिमलो येषु ते च ते । आल्या सखीद्वारा पाटचरा इवेति व्युत्पत्त्या जारपरवमपि । तेन समासोक्तिरलंकारः। लीलावती खकीयादिरेव नायिका । पूर्वार्धे संभोगः, उत्तरार्धं विप्रलम्भश्च शृङ्गारः। कुशलो धार्मिकश्च नायकः । श्लेषादिरप्यलंकारः ॥

 अथ प्रातरुत्थानादिविहितयथाविध्याह्निकव्यापार श्रीराम श्रीकृष्णं प्रति वा तार- श्यैव सीतया राधया वा रहस्यभिसृत्य तृतीययामे किंचित्संकेताद्युक्ते सति तद्दर्शिन