पृष्ठम्:भामिनीविलासः.djvu/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
शृङ्गारोल्लासः

केनचिद्रहःसुहृदा किमनयोक्त मिति प्रणयपृष्टोऽसौ तं प्रत्याह विदूरादित्यादिद्वा- भ्याम्-

विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया-
दुदञ्चच्चाञ्चल्यं तदनु परितः स्फारितरुचे ।
गुरूणां संघाते सपदि मयि याते समजनि
त्रपाघूर्णत्तारं नयनमिह सारङ्गजदृशः ॥ ६० ॥(युग्मम् ।)

 विदूरादिति । हे सखे, विदूराद्विशेषेण दूरतो मद्दर्शने जाते । आश्चर्येति । आश्चर्येण पुरुषाकोरेन्द्रनीलनिचयमरीचिमण्डलविलोकनेनाद्भुतेन स्तिमितं स्तब्धम्। अथानन्तरम् । किंचित्परिचयान्निरुक्ताश्चर्यजन्यलोभवशात् । पुरोगमनजनितेष- त्संनिकषदित्यर्थः । उदञ्चदिति । उदञ्चदतिपूजितं भवाञ्चल्यं चापल्यं यस्य तत्तथा। तदनु निरुक्तासक्तिसमुद्रेकानन्तरं परितः समन्ततः सर्वसौन्दर्यदर्शनार्थम् । स्फारितेति । स्फारिता प्रसारिता रुचिस्तत्प्रतिबिम्बग्रहात्सावशिवनीलकान्तिर्येन तत् । एतेन कमान्नायिकादृष्टावपि स्तम्भवेपथुवैवण्यानि ध्वन्यन्ते । अथ सपदि तत्कालं किंचित्कार्यवशाद्रूणां खपूज्यानां संघाते समूहे । तन्मध्य इत्यर्थः । मयि याते । गते सतीत्यर्थः । इहास्मिन्काले। त्रपेति । उक्तगुरुनिकरमध्यवर्त- त्वादेव या त्रपा ही स्तया घूर्णन्ती चलन्ती तारा कनीनिका यस्य तत्तथा । एतादृ- शम् । तत्रापि । सारङ्गो हरिणस्तस्माज्जायत इति तथा । कृष्णसारकिशोर इत्यर्थः । तद्वदृग्दृष्टियस्याः सा तथोक्ता । तस्याः स्वभावत एव कुरङ्गकुमाराक्ष्या इत्यर्थः । नयनं नेत्रम् । जात्येकवचनम् । यद्वा गुर्वित्याद्युक्तहेतोरेककटाक्षाभिप्रायकमेव । समजनीति योजना ॥

 किमेवं तर्हि संभोगभङ्ग एव संपन्नः । नेत्याह---

कपोलावुन्मीलत्पुलकनिकुरम्बौ मयि मना-
क्स्पृशत्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः ।
कथंकारं शक्याः परिगदितुमिन्दीवरदृशो
दलद्राक्षानिर्यद्रसभरसपक्षा भणितयः ॥ ६१ ॥

 कपोलाविति । ततो झटित्यवान्तःपुरं गत्वा मयि । उन्मीलदिति । मद्दर्श- नादेमाविर्भवद्रोमाञ्चनिचयौ एतादृशौ कपोली गल्ली स्पृशति चुम्बनार्थं करेण परा- मृशति सतीत्यर्थः । अत एव । अन्तरिति । अन्तःस्मरेण गूढस्मितेन स्तब किता मालतीगुच्छतां गता मुखाम्भोरुहे रुग्यस्या इत्यर्थः । अत एव । इन्दीवरेति ।