पृष्ठम्:भामिनीविलासः.djvu/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
भामिनीविलासे

नीलोत्पलविलोचनाया इत्यर्थः । न तु पद्माक्ष्याः । एतेन नायकेऽपि कान्तिसौ- न्दर्यादिलोकोत्तरगुणगणोदयो द्योततः । एतादृश्याः पूर्वेक्तनायिकायाः। दलदिति । दलन्त्यो रसपरिपाकवशात्खयमेव स्फुटन्यः । न तु यत्नपाचिताः । एतेन माधु- यधिक्यं ध्वन्यते । तत्रापि द्राक्षा मृद्वीकाः। न तु जम्बूफलानि । तासां निर्यन्निः- सरन्यो रसभरो द्रवनिवहस्तेन सपक्षाः । निश्चितसाध्यवत्वेन तत्साधम्र्यशालिन्य इत्यर्थः । एतेन तदोष्ठयोनैसर्गिकप्रवालायमानत्वेन परमारुण्येऽपि स्वाभाविकस्मित- पुर्वाभिभाषित्वेन दशनचन्द्रिकाङ्कराञ्चितत्वेन पाटलताया दलद्राक्षोपमेयत्वं तद्वचःसु च मृदुमधुरतरवादिना तद्रसभरोपमेयत्वं च सूचितम् । एतादृश्यो भणितयः । संकेतसूचनादिवाग्व्यापारसरण्य इत्यर्थः । परिगदितं कथयितुं कथंकारं कथं वा शक्याः। न कथमपि शक्यन्त इत्यन्वयः। तस्माभिरुक्तरीतिकतद्भाषणमनन्तगुण- गणैर्वाण्यगोचर मेवेति भावः । अत्र प्रमुदितौ नायिकानायको । संभोग एवं शृङ्गारः । लुप्तोपनादिरलंकारः ॥ ।

 ततः सायं पूर्णचन्द्रोदयं निरीक्ष्य तदपेक्षयापि निकटस्थायाः सीताया राधाया वा वदनस्य श्रीरामः श्रीकृष्णो वा शोभासंभार व्यनक्ति--

राजानं जनयबिभूव सहसा जैवातृक त्वां तु यः
सोऽयं कुण्ठितसर्वशक्तिनिकरो जातो जरातो विधिः ।
संप्रत्युन्मदखञ्जरीटनयनावक्राय नित्यश्रिये
दाता राज्यमखण्डमस्य जगतो धाता नवो मन्मथः ॥२२॥

 राजानमिति । हे जैवातृक।‘अब्जो जैवातृकः सोमः' इत्यमराद्धे चन्द्रेत्यर्थः। तेन जैवातृकः स्यादायुष्मान्' इत्यपि तदुक्तेः श्लेषेणान्यस्य राज्यावाप्तौ स मां मारयिष्यतीति त्वया नैव भेतव्यम् , किंतु तद्राज्यस्य प्रतिक्षणोत्कबैंकदर्शनतः। क्षीणत्वकलक्षितत्वादिभिरेव केवलं जीवितव्यमिति द्योत्यते। त्वां तु यो विधिव्रह्मा ।। एतेन विदधातीति विधिरिति व्युत्पत्तिवशात्केवलकियैककोविदस्य तस्य विचार- विधुरत्वं ध्वन्यते । अतएव सहसा राजानं जनयांबभूव । अविचारेणैव रचया- मासेत्यर्थः । सोऽयं सर्वज्ञत्वेन प्रत्यक्षः । एतेनाश्रद्धेयवचनत्वं परास्तम् । जरातो द्विपरार्धायुष्यस्तस्य चरमपराधरम्भाद्वार्धक्येनेत्यर्थः । कुण्ठितेति । अत्र सर्वपदेन सावंशिकतदाश्रयाशाव्युदासः सूच्यते । एतादृशो जात इत्यन्वयः । ननु भवत्वेवम् । किं तावता। नहि दातुर्दैन्ये दत्तद्रव्यदलनं दृश्यत इत्यत आह-