मूलकाराद्युक्तेः क्व पुनस्तदनुरागः, तरी तज्जन्योकनिर्णयाभावः, कतमां निरुक- तत्कार्याणीति वाच्यम् । कृष्णस्य पूर्णब्रह्मत्वेनात्मत्वात्तत्र च निरुपचरितप्रीतिविष- यत्वस्य नैसर्गिकसानुभविकत्वाच्च । तेन मायिकाविष्कारितोकलीलाविग्रहवति तु तस्य कैमुत्यसिद्धत्वात् । इह संबोध्या मध्या मानवती परकीया च, तथा वण्यः परकीया विरहिण्यो मुग्धाद्याश्च नायिकाः। सर्वोत्तमो नायकः । विप्रलम्भः शृङ्गारः । चपलातिशयोक्त्यादयोऽलंकाराः । मन्दाक्रान्ता वृत्तम् ॥
प्रसङ्गे गोपानां यदुषु बहुमानं यदुपते |
प्रसङ्ग इति । हे राधे, कुलेति । काचित्साध्वी । गोपानां बल्लवानाम् । नन्दा दीनामपति यावत्। प्रसङ्गे कास्मंश्चिदिन्द्रयागादिकार्यारम्भप्रसकावियर्थः । गुरुषु । निर्धारणसप्तमीयम् । सकलवियोवृद्धेषु मध्य इत्यर्थः । यद्वा ‘स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः' इत्युक्तलक्षणरीत्या स्मृति विषयीभूते गुरुविषयकानुपेक्षणीये कः सर्वगुणैर्व- रिष्ठ इति विचारे प्राप्ते सतीति यावत् । यदुपतेः श्रीकृष्णस्य बहुमानमिन्द्रयागं युक्तिभिः पराकृत्य गोवर्धनैकयागप्रतिपादकयुक्तिवैभवपारवश्यप्रयुकं सत्कार मिति यावत् । उपाकर्य निकटवर्तित्वेनाकस्माच्छ्रुत्वा । विद्यदिति खेदं प्राप्तौ । तथा । पुलकितेति पुलकितौ संजातरोमाञ्चौ कपालौ यस्याः सा तथेत्यर्थः । एतेन ज्ञानाधिक्यज्ञानजन्योऽयमनुराग इति ध्योतितम्। तेन पूर्वपद्यापेक्षयास्य न पौनरुत्यम् । तत्र तु सौन्दर्योत्कर्षस्यैवोक्तवात् । अत्र तु वुड्यादिवैभवस्याप्य- भिहितत्वाचेति । एतादृशी । नन्वेवं तर्हि कथं तया खकपोलपुलकखेदजा- लापलापनमकारीत्याकाङ्क्षा क्षपयति—विषेत्याद्युत्तरार्धेन । एतादृशी अतएव । विषेति । विषस्य गरलस्य या ज्वालास्तासां जालम्, न तु लेशम् । एते- नातिदुःसहत्वं द्योतितम् । तत्रापि झटिति शीघ्रम्, न तु विरम्य । एवं च तदेव दृढीकृतम् । वमतः । भगवत्पादप्रहारासहिष्णुत्वेनोद्रित इत्यर्थः । तत्रापि पन्न: गेति । सर्पराजस्येत्यर्थः । एतेनाशक्यप्रतीकारत्वं ध्वनितम् । तत्रापि फणायाम, न तु पुच्छादौ । यदुपतेरित्यत्राप्यनुकृष्य योज्यम् । श्रीकृष्णस्येत्यर्थः । ताण्डवेति । उद्धतनृत्यप्रकारमित्यर्थः । साश्चर्यमाश्चर्येण विस्मयेन सहितं यथा भवति तथा । भा० वि० ८