पृष्ठम्:भामिनीविलासः.djvu/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
भामिनीविलासे

कथयतितरां वारंवारे वृद्धगोपान् प्रति निरुकभगवत्ताण्डववर्णनमेवोकरीत्या खानु- रागव्यञ्जकस्वकपोलपुलकाद्यपलापनप्रयोजकाद्भुतरसपरिपोषपूर्वकं विनिवेदयतीत्य- न्वयः । तत्स्यायदा पतिव्रतानामपि श्रीकृष्णसौन्दर्यसार्वन्यादिविचित्रविविधगुणा- कृष्ट्येदृशं कष्टं तदा कैव कथानुभूततद्गत्या भवत्या इति मह्यमेव यशः प्रदाय द्रुत- मचैव तं प्रत्यभिसर्तव्यमित्याशयः । अत्र प्रकृता परकीया मध्या मानवती नायिका वण्य तूत्कण्ठितैव । ललितो नायकः । विप्रलम्भः शृङ्गारः । अपहुतिरलंकारः ॥

 अथ वैदेह्यास्तु ‘राजानं जनयांबभूव' इत्यादिद्वाषष्टिपद्येन श्रीरामेण मुखारवि- न्दवर्णनतोऽभिनन्दने कृतेऽपि परमसात्विकत्वाद्र्वराहिये सत्यतीव परितुष्टोऽसौ राधायाश्चोकोपदेशेनातिप्रसादतोऽभिसृतायास्तादृशः श्रीकृष्णो वा मुखाद्यवयवा- न्वर्णयति--

कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना-
वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया ।
आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां
किंचासीदमृतस्य भेदविगमः साचिस्मिते सर्वदा ॥६५॥

 कैशोर इति । ‘कशोरमापञ्चदशम्' इत्यभियुक्तोतेर्दशवर्षोंत्तरपञ्चदशवर्षप- रिसमाप्तिपर्यन्तमित्यर्थः । वयस्यवस्थाविशेषे तन्व्याः कृशाझ्याः । तनी शरीरे । क्रमेणैकादशवर्षाद्यनुक्रमेण । तनुतां कार्यं क्षीणखमिति यावत् । आयात्यागच्छति सतीत्यर्थः । अत एवाखिलेश्वर ईश्वरादिजगद्यामोहकवाद्विश्वनियन्तरीत्यर्थः। एतेन वक्ष्यमाणतदाज्ञायामवश्यानुल्लङ्घनीयत्वं व्यज्यते । एतादृशे रतिपतौ न तु कामे । तेन ‘यथा राजा तथा प्रजा' इति न्यायेन खस्याखण्डविलासशीलत्वेन खमियम्येषु तत्कारकत्वनैसर्य सूचितम् । तस्मिन्मदने च निरुक्ततनुरूपनगर्यवच्छे- देनागामिन्यागमिष्यति सतीत्यर्थः । अस्य निरुक्तलक्षणस्य रतिपत्राज्ञया नियोगेन तत्कालमेव तत्क्षणमेव । न तु विलम्बेनेत्यर्थः । एतेन राजाज्ञातिक्रमे सद्यः- प्राणविगम इति भीतिः सूचिता । आस्ये मुखे । पूर्णेति । अत्र शशपदेन कपोले कस्तूरीमकरविरचनचतुरवरूपस्तरुणीवभावो ध्वन्यते। पूर्णपदं द्वितीयादीन्दुव्युदा- सार्थम् । तेन तत्र स्खनेत्रचकोरतृप्तिजननक्षमत्वं द्योत्यते । तथा नयनयोनॆत्रयोः । अम्भोरुहामम्भस्युदके रुहन्ति ‘रुह बीजजन्मनि प्रादुर्भावे च' इति धातोर्जन्म लभन्ते तानि तथा । तेषां कमलानामित्यर्थः । एतेन तत्रातिशिशिरीकरणचणत्वं