परिचयेन नामग्रामादिबोधपूर्वकचाक्षुषज्ञानेनापि हीना। शून्येत्यर्थः । एतेनौदासी- न्यातिशयो द्योत्यते । सेत्यनेन हार्दप्रेमभर आवेद्यते । एतादृशी वीक्षते । पश्य- तीत्यर्थः । तस्मान्मैवेतः परमेवं कुर्या इति तात्पर्यम् । अतो विरहिणी मुग्धा स्वकीयादिरेव नायिका । अपराधाभासी नायकः । संभोगारम्भो विप्रलम्भश्च शृङ्गारः। उत्प्रेक्षालंकारः। परिकरकाव्यलिङ्गाद्यपि ॥
इत्थमौदासीन्यमवलोक्य श्रीरामः सीतां श्रीकृष्णो राधां वा परमोत्तमनायक- त्वेन खमात्रापराधमवधारयन्नधरादितद्रूपवर्णनेन प्रसादयति-
अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी । |
अधरेति । अयि प्रिये । इयं तवेयध्याहारस्तु वक्तुविह्वलत्वेनानुसंधानवैधु- यदुणावह एव रसपरिपोषकतयेति ध्येयम् । अधरद्युतिरधरोष्ठकान्तिः, न तु पाद- तलदीप्तिः । एतेन चक्षुःसंनिकर्षस्य सांमुख्येन तत्रैवातिसत्त्वाचुम्बनानुरागाति- शयः सूचितः । अस्तेति । अस्ता अदर्शनं गताः । भीतभटन्यायेन संकुचिता इत्यर्थः । पल्लवाः पदस्वत्पदसौन्दर्यस्य लवो लेशो येषु ते तथा, न तु किसल- यानि यया सा तथेत्यर्थः । एवं चात्र मृदुवारुणत्वसरसवातिशयो द्योत्यते । तर्हि किं ममाधर एव रम्य इत्यत आह-मुखेति । आस्यसुषमा । शशीवि ।। शशिनः । न तु चन्द्रस्य । एतेन तत्र शशीयश्यामरूपशालित्वेन तत्कान्तौ लङ्घ- नार्हत्वं ध्वन्यते । तस्य या कान्तिस्तां लङ्घयत्यतिक्रामतीति तथा । तत्र क्षयिवा- दिदोषग्रस्तत्वेन खस्यां प्रतिक्षणाधिकवर्धिष्णुत्वादिगुणगणरमणीयत्वेन च तदति- क्रमणनिपुणत्वं व्यज्यते । नन्वथापि किं मुखमेव मामकं कमनीयमित्यत्राह-- तनुरिति । चः समुच्चये । तनुर्व्यक्तिरपि सकला अप्रतिमैव । अनुपमैवेत्यर्थः । यद्वा न विद्यते प्रतिस्पर्धिनी मा लक्ष्मीरपि यस्याः सा तथेति यावत् । एतेन त्रैलोक्यसुन्दर्याः श्रियोऽपि तव सौन्दर्यमधिकमेवेति ध्वन्यते । तेन सद्यः सर्वा- इसंभोगाभिलाषो द्योत्यते । एतत्रितयं कर्तृ । अस्य वार्तमानिकस्य विधेर्ब्रह्मणः कृतिं रचनां न विवक्षति । नैव विशेषतो वक्तुमिच्छतीत्यर्थः । एवं च कल्पान्त- रीयस्य तस्येयं त्वक्षकृतिरूपाकृतिरस्ति वा न वेति संदेह एव तव संदेह इति भावः। यदि वर्तमानकालिकस्य कस्येयं कृतिस्तावकाकृतिः स्यात्तह्यन्याप्येवम् । तेन स्वाभाव्यादेव काचिदचिता स्यान्न तु तथा क्वापि दृश्यतेऽतः सम्यगेवेदमुक्तं