पृष्ठम्:भामिनीविलासः.djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
शृङ्गारोल्लासः

 उदितमिति । तत्राप्येकमनिष्टमेव संपन्न मिति द्योतयति–रुदितमिति द्विती- यचरणेन । किं तर्हि न स्वाभीष्टमभूदित्यत्राह–मुदितमित्युत्तरार्धेन । चूडामणय इव रूपाद्याधिक्येन मुख्याः । स्पष्टमन्यत् । तस्मात्खेष्टप्रयोजकमात्रं संपन्नम् । न त्वद्यापि तदिति भावः । अत्र काव्यलिङ्गमलंकारः । अन्यत्तु प्राग्वदेव ॥

 अथ व्याकुलं श्रीकृष्णमेव तत्सखी स्वस्थकर्तु संफुलेन्दीवरं सरः प्रदर्शयति--

इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् ।।
सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥ ७१ ॥

 इदमिति । स तं(तां) प्रत्याह-सखे इति । त्वद्वचस एव तत्स्मारकत्वात्। अत्र बहुवचनान्न रामः । इह स्मृत्यलंकारः। शिष्टं तु प्राग्वदेव स्पष्टं च ॥

 अथैवं समुदितेऽपि चन्द्रमण्डलेऽनुशान्तमानां जानकी राधिका वावलोक्य श्रीरामः श्रीकृष्णो वा परमैश्वर्यवशात्तत्कालं चरमं माराख्ने प्रावृशोभाविभवनं संपाद्य तद्वशेन तामुपालम्भतः प्रसादयामासेति कविः संवर्णयति-

मुञ्चसि नाद्यापि रुष भामिनि मुदिरालिरुदियाय ।
इति सुदृशः प्रियवचनैरपायि नयनानकोणशोणरुचिः ॥७२॥

  मुञ्चसीति । हे मानिनि, इयं मुदिरालिः। ‘घनजीमूतमुदिरजलमुग्धूमयोनयः इत्यमरात्कादम्बिनीत्यर्थः । उदियायोदिताभूत् । एवं च मलिनयाप्यनया घनश्रे- ण्याभ्युदये समासादितेऽन्तर्बहिःशुद्धायाः सर्वाशमुग्धायास्तव मानैकमौनत्वमनुचि- तमेवेति सूचितम् । त्वं त्वयाप्येवं प्रावृडागमेऽपि रुषं क्रोधं न मुञ्चसि । तस्मा- द्धन्यैवासीति विरोधिलक्षणया विचक्षणवशून्यत्वं ध्वन्यते । इति प्रियवचनैः खप्रेयश्चाटुचयैः । सुदृशः । एतेन श्लेषाद्विचारशालित्वं व्यज्यते । अत एव । नयनेति । रोषसूचकलोचनकमलकोणारुणिनेत्यर्थः । अथायिषिता(अपाय्यपेता)। अगमदिति यावत् । एवं च सद्यः सुप्रसन्नाभूदिति भावः । अत्र विगतमाना स्वकीयादिर्नायिका । अनुनयी लब्धसाध्यश्च नायकः । संभोगः शृङ्गारः । लुप्तो- पमादिरलंकारः ॥

 एवं तदोषावमोषपरितोषतः श्रीरामः सीतां श्रीकृष्णो राधां वाभिवर्णयति-- आलोक्येत्यादिद्वाभ्याम् ।