पृष्ठम्:भामिनीविलासः.djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
शृङ्गारोल्लासः

आलोक्य सुन्दरि मुख तव मन्दहास
नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः ।
किं चासिताक्षि मृगलाञ्छनसंभ्रमेण
चञ्चपुटं चटुलयन्ति चिरं चकोराः ॥ ७३ ॥

 आलोक्येति । मिलिन्दा भ्रमराः । अमन्दं नन्दन्तीति संबन्धः । असितेति साभिप्रायम् । अत एव । मृगेति । त्वत्कान्यमृतप्राशनार्थमित्यार्थिकम् । चटु- लयन्ति विकासयन्ति । एवं च मुखे प्रसादातिरेकः सूचितः । इह प्रसन्ना नायिका । प्रीतो नायकः । उक्त एव शृङ्गारः । भ्रान्तिरलंकारः ॥

स्मितं नैतत्किंत्तु प्रकृतिरमणीयं विकसितं
मुखं ब्रूते को वा कुसुममिदमुद्यत्परिमलम् ।
स्तनद्वन्द्व मिथ्या कनकनिभमेतत्फलयुग
लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥ ७४ ॥

 स्मितमिति । एतन्मुखमिति को वा ब्रूत इत्यन्वयः । एतेनापि प्रसादोत्कर्ष- स्तस्यां पद्मिनीत्वं च व्यज्यते । भ्रमरेति । एतेन कबरीसौन्दर्यातिशयः सूचितः । अत एव सेयं प्राक्कोपितापीदानीं सुप्रसन्नत्वेन प्रत्यक्षेत्यर्थः । रम्या लता । कल्प- वहयेवेति यावत् । शिष्टं तु स्पष्टमेव इहोपह्नुतिरलंकारः । अन्यत्प्राग्वदेव ॥

 एवं स्तवनोत्तरं यथेच्छं तद्रात्रौ रति विलासं संपाद्य द्वितीयदिवस आसायं विरहवशेन व्याकुलमनाः श्रीरामः श्रीकृष्णो वा चन्द्रोदयं निरीक्ष्य तत्र सूर्यत्वमुत्प्रेक्षते-

संग्रामाङ्गणसंमुखाहतकियद्विश्वंभराधीश्वर-
व्यादीर्णोकृतमध्यभागविवरोन्मीलन्नभोनीलिमा।
अङ्गारप्रखरैः करैः कवलयन्नेतन्महीमण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः॥७५॥

 संग्रामेति । संग्रामः संगरस्तस्याङ्गणं स्थलं तत्रापि संमुखं न तु पृष्ठत आहताः समन्तात्खङ्गधारया निहता एतादृशः कियन्तस्तादृशां दुर्लभवात्कविचिदेव ये विवंभरा पृथ्वी तस्या अधीश्वराः पृथ्वीपतयः । क्षत्रिया इति यावत् । तेषामेव रणादौ मुख्याधिकारात् । तैयदीर्गीकृतो विदारितः । तदुक्तम्-‘द्वावेव पुरुषौ