पृष्ठम्:भामिनीविलासः.djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
शृङ्गारोल्लासः

लोके सूर्यमण्डलभेदिनौ । परिव्राड योगयुक्तश्च रणे चाभिमुखं हतः ॥ इति । तत्र प्रकृतं आद्यं विहायान्यस्यैव कल्पनम् । श्रीरामादेः क्षत्रियत्वात्तस्य शृङ्गा- रविरोधित्वाञ्च युक्तमेव । एतादृशो यो मध्यभागस्तस्य यद्विवरं छिद्रं तेनोन्मील- प्रकटीभवन्नभोनीलिमाकाशकाष्र्यं यस्मिन्स तथेत्यर्थः । एतेन यद्ययं सूर्य एव न चन्द्रस्तर्हि कलङ्ककालिन्नः का गतिरिति शङ्काशान्तिः स्फुटिता । तथा । अङ्गारेति । अङ्गारा ज्वलत्काष्ठानि तद्वत्प्रखराः प्रकर्षण तीक्ष्णास्तैरित्यर्थः। ‘तिग्मं तीक्ष्णं खरम्' इत्यमरः । एतादृशैः करैः किरणैः । एतत्प्रत्यक्षम् । महीति । पृथ्वीतलम् । एतेन खानुमानेन ‘अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत्' इत्यभियुक्तोत्या च नाय- मस्मान्सूर्यवत्संतापयति, ततः कथं त्वयायं सूर्य एवेत्यवधार्यत इति प्रश्नः प्रयुक्तः । कवलयन्प्रसन् । न तु संतापयन्नेव । तेन तत्र परमासह्यत्वं ध्वन्यते । एतादृशः सन् । अयं प्रत्यक्षः । एवं च निरुक्तधर्मितयानुभूयमानत्वेन सर्वथापलापानर्हत्वं योल्यते । मार्तण्डः सूर्य उदेत्युदयं प्राप्नोति । नहि नहि, भो भगवन् , अयं चन्द्र एवेति कृतवादं कंचित्सुहृदं प्रत्याक्षिपति–केनेत्यादिशेषेण । तथा चातस्मिंस्त- द्वद्धिलक्षणेन स्वस्य भ्रमेणाखिललोकवचनं हि मौख्यैककार्यम् । अतः स तत्साध- त्पशुरेवेति भावः । अत्र विनापि सूर्यत्वमेव दृढीकृतं बोध्यम् । इह विरही नायकः । विप्रलम्भः शृङ्गारः । हेत्वपहृत्यलंकारः ॥

 ततः समयानुसारेणाभिसरन्तीं खमेव सीतां राधा वा दूरावलोक्य श्रीरामः श्रीकृष्णो वा स्वमनस्येव तत्कटाक्षपातेन सद्यःसंमोहादिलिईन तक्षेत्रीयश्यामा- दिरूपे हालाहलाद्युत्प्रेक्षते-

श्यामं सितं च सुदृशो न दृशोः स्वरूपं
किं तु स्फुटं गरलमेतदथामृतं च ।
नो चेत्कथं निपतनानयोस्तदैव
मोहं मुदं च नितरां दधते युवानः ॥ ७६ ॥

 श्याममिति । सुदृशः प्रकृतमृगाक्ष्याः। दृशोर्नेत्रयोः । श्यामं कृष्णं सितं शुक्लं च खरूपम् । अत्र रूपपदेनैव चारितार्थे खपदं शुक्लपटादेः काश्मीरजरसजन्यपी- ताद्यगन्तुकरूपव्युदासार्थमेव । तथाच कर्मधारय एवात्र न षष्ठीतत्पुरुषः । तेन खं नाम लक्षणया खभावसिद्धमित्यर्थः । न नैव भवति । किंतु । एतत्प्रत्यक्षम् । स्फुटं सर्वानुभवसिद्धम् । एतेनैकस्यैव खप्नदर्शनवद्धमत्वं प्रत्युक्तम् । क्रमादिति-