पृष्ठम्:भामिनीविलासः.djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
शृङ्गारोल्लासः

शेषः । गरलं विषम् । अथानन्तरं विषत्वस्य श्यामरूपावच्छेदेनाध्यवसानोर्वमि- त्यर्थः । अमृतं पीयूषम् । चोऽवधारणे । तेनात्र शङ्कानवकाशः सूचितः। विपक्षे- ऽनुकूलतर्कपराहतिमाह-नो चेदित्युत्तरार्धेन । नो चेदुक्तकल्पना नाद्रियेत चेद- नयोः प्रकृतहगवच्छिन्नश्यामादिरूपयोः । निपतनात् । नितरां सानुरागकटाक्षप्र. क्षेपावच्छेदेन कान्त्यात्मना संचरणादित्यर्थः । तदैव न तु क्षणान्तरे। तेन वक्ष्य- माणकार्ये कारणान्तरसंभवव्युदासः सूचितः । युवानोऽस्मदायस्तरुणाः । नितरा- मत्यन्तं नतु क्षणिकम् । तेन लोकोत्तरत्वं द्योत्यते । मोहं वैचित्यम् । मूर्च्र्छ- मिति यावत् । अनुरागस्तहिं तत्र कथमित्यत आह—मुदमिति । हर्षमित्यर्थः । दधते धारयन्तीति संबन्धः । हालाहलस्य दर्शनान्मोहस्तथामृतस्य दर्शनान्मोदश्च समुद्रमथने प्रसिद्ध एवैवं तयोनीलधवले रूपे अपि शिवग्रीवासुधाकरयोरिति युक्त एवायं कार्यान्यथानुपपत्तिमूलकस्तर्क इत्याशयः । अत्राभिसारिका स्वकीयादिन- यिका। मुदितो नायकः । संभोगः शृङ्गारः । हेत्वपहुतिरलंकारः ॥

 ततः किंचिदग्रे समुपागतां तामलक्ष्य तद्वदनं संदेहालंकारेण वर्णयति-

अलिगो वा नेत्रं वा यत्र किंचिद्विभासते।
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥ ७७ ॥

 अलिरिति । यत्रालिभैमरो वा मृगो वा नेत्रं वा । जायैकवचनम् । किंचिद्वि- भासते तदिदं क्रमादरविन्दं कमलं वा मृगाङ्कश्चन्द्रो वा मृगीदृशः प्रकृतनायि- काया मुखं वास्तीत्यन्वयः । अत्र मृगीदृक्पदमुक्तयोग्यतार्थम् । शिष्टं तु स्पष्ट- मेव पूर्ववचे ।

 अथाति निकटमभिसृतां सीतां श्रीरामो राधां वा श्रीकृष्णस्तरप्रसन्नतराननवर्ण- नेनाभिनन्दयति–दयिते इत्यादि द्वाभ्याम् ।

दयिते रदनत्विषां मिषा-
दयि तेऽमी विलसन्ति केसराः ।
अपि चालकवेषधारिणो
मकरन्दस्पृहयालवोऽलयः ॥ ७८ ॥

 दयिते इति । अयि दयिते। एतेन प्रेमप्राचुर्यं सूचितम् । ते तव । रदनेति । स्मिताविर्भूतदन्तकान्तिछद्मनेत्यर्थः । अमी प्रत्यक्षाः । एतेन प्रसादस्य तात्का-