पृष्ठम्:भामिनीविलासः.djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
भमिनीविलसे

अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति ।
विकलयति कुसुमबाणो बाणालीभिर्मम प्राणान् ॥ ८० ॥

 अङ्गैरिति । भो मित्र, सा पूर्वप्रकृता नायिका । कुसुमबाणो मदनः । साभि- प्रायमिदम् । नायिकाङ्गैः पुष्पशोभापहारे कृते तत्पक्षपातितया तल्लक्षणबाणैर्मत्प्रा- णविकलीकरणं राजनीति विरुद्धमेवेति भावः । तस्मादेतादृशविपरीतकारिपरतत्रा- णामस्माकं प्रमादोऽयं कथं नाम दोषावहः स्यात् । प्रत्युत निरुक्तवीरस्मरभट्टारकप- रितोषकारित्वादसौ गुण एवेति तात्पर्यम् । अत्र लोकोत्तरसुन्दरी स्वकीयादिरेव ना- यिका । कोविदो नायकः । संभोगः शृङ्गारः । असंगविरलंकारः। परिकराङ्कुरश्च ॥

खिद्यति सा पथि यान्ती कोमलचरणा नितम्बमारेण ।
खिद्यामि हन्त परितस्तदूपविलोकनेन विकलोऽहम् ॥ ८१ ॥

 खिद्यतीति । सा प्रकृतनायिका । कोमलेति साभिप्रायम् । अत एव पथि यान्ती सती नितम्बमारेण खिद्यतीत्यन्वयः । हन्तेति खेदे। अहं तद्रूपालोकनेन विकलः सन्परितः खिद्यामीति संबन्धः । काव्यलिङ्गादिरलंकारः-शेषमति- रोहितार्थम् ॥

 अथाकस्मादागतेऽकूरे श्वः श्रीकृष्णे मथुरां प्रति जिगमिषौ सति सामान्यतः सर्वासामपि व्रजयुबतीनां प्राणसद्भावोऽपि तद्विरहे भारीभूत एवेति तावतैवातिदुः- खितानां निशि दैवादाकावशेन पूर्णशरदिन्दुकान्तिरपि प्रलयानलायमाना तथा सवमन्दिरावच्छिन्नाम्बरमपि कल्पाब्धिकल्पमेवाभूदिति कविः कल्पयति--

मथुरागमनोन्मुखे मुरारा-
वसुभारार्तिभृतां व्रजाङ्गनानाम् ।।
प्रलयज्वलनायते स्म राका
भवनाकाशमजायताम्बुराशिः ॥ ८२ ॥

 मथुरेति । असवः प्राणास्तेषां यो भारस्तेन यार्तिः परमतमपीडा तां बिभ्रति तास्तथा तासामित्यर्थः । हरि विरहेऽन्तःसमीरोऽपि भारीभूत एवं व्रजसुन्दरीण सामान्यतस्तदा तदेकजीवितावधिकायाः श्रीराधिकायाः कैव कथा तथात्व इत्या- शयः । न केवलमेवमन्तर्वेदनैव, अपि तु बाह्याप्यसौ तथेति कथयति-"लये- त्याद्युत्तरार्धेन । 'ज्वलनो हव्यवाहनः' इत्यमराप्रलयकालानलवदाचरति स्मेत्यर्थः । भवनेति । ‘भवनागारमन्दिरम्' इत्यपि तदुक्तेः खगृहावच्छिन्नव्योमापीत्यर्थः ।