पृष्ठम्:भामिनीविलासः.djvu/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
शृङ्गारोल्लासः

अम्ब्विति । प्रलयकालिकसमुद्र एवेति यावत् । अत्र तैजसत्वविपुलत्वाभ्यामेवान- योस्तत्साधम्र्ये बोध्ये । इह विरहिण्यः परकीया एवं मध्या नायिकाः । धीरो नायकः । विप्रलम्भः शृङ्गारः । लुप्तोपमादिरलंकारः ॥

 किंच न केवलं रूपवैभवेनैव जानक्यां ममायासक्तिः, किंतु गुणवैभवेनापीति प्रपूर्वपद्यप्रकृतः श्रीरामः खरहःसुहृदं तथा श्रीकृष्णो वा पूर्वपद्योकरीत्या मथुरा गत्वा कंसादींश्च हत्वा राधाद्यखिलगोपिकासान्त्वनार्थ मुद्धवं प्रेषयंस्तं प्रति तच्चा- तुर्यचमत्कारं स्मृवी प्रपञ्चयति--

केलीमन्दिरमागतस्य शनकैरालीरपास्येङ्गितैः
सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः ।
जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताझ्या सखि
श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममासञ्जितः ॥८३॥

 केलीति । भो मित्र, केल्याः क्रीडाया यन्मन्दिरं गृहं रत्यागारं तत्रागतस्तद- र्थमुपागतस्तस्येत्यर्थः । एतादृशं मामवलोक्येति यावत् । अत एव शनकैः । न तु तत्कालम् । नो चेन्मदागमनमनया ज्ञातमेवेति मम प्रेमासंभवेन वक्ष्यमीणखरो- षावमोषणभङ्गापत्तिः स्यात् । आलीवयस्याः । इङ्गितैः सुप्तिसूचकप्रावरणग्रहणादि. चेष्टितैः । न तु वाचा । तथात्वे जागरसंभवेनोक्तपतितावस्थ्यमेव । एतेन चातु- यतिशयः सूचितः । अपास्य बहिर्निरस्य । सुप्ताया निद्राणायाः । तत्र हेतुः- सेति । किंचिद्विलम्बेनोपगतत्वान्मयि रोष प्रकाशयन्त्या इत्यर्थः । अत एव । सरोरुहेति । कोकनदनयनाया इति यावत् । कर्मणि षष्ठीयम् । अतएव संवीज- नम् । एतादृक्प्रकृतनायिकाकर्मकप्रसूनव्यजनजन्यपवनशिशिरीकरणमित्यर्थः । कुर्वतोऽनुतिष्ठतचेति यावत् । निद्राणायास्तावद्रमण्याः प्रसूनव्यजनसमीरणैः शिशि- रीकरण जागरोद्यर्थं चतुराणामुचितमेव । एतादृशस्य मम पाणिः । जानन्यापि। मदागमनादिज्ञातवत्यापीत्यर्थः । अनभिज्ञयेव । अतएव । कपटेति । कपटेन व्यामीलिते विशेषेण आ ईषन्मीलितेऽक्षिणी यया सा तथा । तयेत्यर्थः । एतेना- धंसुप्तिबोधनं ध्वन्यते । एतादृश्या तया प्रकृतनायिकया। कर्येत्यर्थः । एतेन क्रियाविदग्धत्वं द्योत्यते । हे सखि, त्वं श्रान्तासीत्यभिधाय संवीजनं कुर्वन्तं मां प्रति सखीबुद्ध्यैवेयं जल्पतीति प्रकाश्येति यावत् । वक्षसि । खहृदय इत्यर्थः । एतेनोक्तपवनशीतलेन त्वत्पाणिना तर्हि मम हृदयजाग्निप्रशमनं भवत्विति विरहा-