पृष्ठम्:भामिनीविलासः.djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
भमिनीविलसे

तिरेकः प्रागुक्तसंवीजनेन परमोपकर्ता श्रान्तश्चायं पाणिरेव हृदये कार्य इति वा प्रत्युपकारपूर्वकः स एव सूचितः आसञ्जितः । समन्तात्संघट्टितः । न तु केवलं योजितः तेनोत्कण्ठौत्कट्यं व्यज्यते । अत्र चतुरावेव नायिकानायकौं । संभोगः शृङ्गारः ॥

 अथ पुनरपि श्रीरामः सीतायाः श्रीकृष्णो वा खोपनयनाद्युत्तरं रुक्मिण्याः पाणिग्रहणादि विधाय खमनस्येव सौन्दर्य वयःसंधिकालिकं संवर्णयति-

मान्थर्यमाप गमनं सह शैशवेन
रक्तं सहैव मनसाधरविम्बमासीत् ।
किं चाभवन्मृगकिशोरदृशो नितम्बः
सर्वाधिको गुरुरयं सह मन्मथेन ॥ ८४ ॥

 मान्थर्यमिति । मृगेति । एतेन तन्नेत्रयोरतिचपलखविशालत्वकृष्णत्वसर- सत्वानि सूचितानि । एतादृश्याः प्रकृतनायिकायाः संबन्धीत्यर्थः । गमनं शैश- वेन बाल्येन सह । मान्थर्य मन्दत्वम् । आपेति योजना । अनयोरपि क्लीबत्वेनो- चितमेव साहचर्यम् । एवमधर बिम्बमपि । अधरोऽधरोष्ठ एव बिम्बम् । एतन्ना- मकं पक्वतुण्डीफलमित्यर्थः । मनसा चेतसा सहैव रक्तमारक्तं पक्षेऽनुरक्तं चासी- दियन्वयः । किं चेति समुच्चये। तथायं प्रत्यक्षः। एतेन तस्यास्तदानीं पुरोवर्तित्वं द्योत्यते । नितम्बः कटिपश्चाद्भागः । जात्यभिप्रायकमेवैकवचनम् । तथोद्वित्व- प्रत्यक्षात् । मन्मथेन मदनेन सहैव । सर्वाधिकः सर्वोत्कटः । एतेन सर्वात्मना- दरणीयत्वं व्यज्यते । तत्रापि गुरुर्महान्पक्षे पूज्योऽभवदित्यन्वयः । तस्मादुचित एवास्यां मदनुरागातिशय इत्याशयः । इह सुन्दरी मध्या स्वकीयैव नायिका ।। अनुरको नायकः । संभोगः शृङ्गारः । सहोक्तिरलंकारः ॥

 अत्रान्तरे श्रीराम प्रति तावत्कालिकविरहमप्यसहन्त्याः सीतायाः, सखा व्रजं प्रति प्रेषितस्ततः समागतस्तावदुद्धवो वा श्रीकृष्ण प्रति राधायाः परमविरहग्लानिं वर्णयति-श्वास इति त्रिपाद्या-

श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः ।।
तस्याः सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥ ८५ ॥

 श्वास इति । हे सुभग शोभनैश्वर्य । एतेन परवेदनानभिज्ञाननिदानं ध्वनितम्। श्वासोऽनुमान वेद्यः। कापससूत्रलेशस्य तन्नासाग्रसंयोजने, विधीयमाने तत्कम्पा-