पृष्ठम्:भामिनीविलासः.djvu/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
शृङ्गारोल्लासः

ख्यकार्यलिङ्गकानुमानैकगम्य इत्यर्थः । अतएव । अङ्गानि हस्तपादायवयवाः । शीतानि शीतलानि । इदं सुष्माभावसूचकत्वेन प्राणोत्क्रमणस्यैव लिङ्ग लोकादी प्रसिद्धमेव । तथा दृष्टिरपि निश्चला । तटस्थेत्यर्थः । पूर्वोत्तरयोर्धर्मयोः समाधिव्य- भिचारित्वेऽपि मध्यमस्यैवाव्यभिचारित्वेनानयोरपि तथात्वमेव ज्ञेयम् । इयं तस्याः प्रकृतनायिकायाः कथास्तीत्यन्वयः । तस्मात्त्वयातित्वयैव तत्र गन्तव्यमिति भावः । एवमत्युक्तिवशादमङ्गलप्रायत्वेनासहिष्णुत्वात्क्रुद्ध इव श्रीरामः श्रीकृष्णो वा तं तिरस्करोति–तिष्ठत्वित्यादिशेषेण । एवं चेदं श्रोतुमपि मया नैव शक्यत इत्याशयः । अत्र विरहिणी स्वकीयादिनायिका । क्रुद्धो नायकः । विप्रलम्भः शृङ्गारः । काव्यलिङ्गमलंकारः ॥

 ततः श्रीरामः शीघ्र सीतामुपेत्य तत्करे खकरस्थापनं धमनीक्षणार्थ कृत्वा तस्यास्तत्स्पर्शमात्रेण चेतनोद्गमात्खस्य च ततः कामिकसात्विकवेपथ्वागमाच्च तत्कालं चकम्प इति कविर्व्य॑नक्ति--

पाणौ कृतः पाणिरिलासुतायाः
सस्वेदकम्पो रघुनन्दनेन ।
हिमाम्बुगङ्गानिलविह्वलस्य
प्रभातपद्मस्य बभार शोभाम् ॥ ८६ ॥

 पाणाविति । इलासुताया भूमिनन्दिन्याः । एतेन तात्कालिकातिजाड्यं व्यज्यते । पाणी करे । रघुनन्दनेन श्रीरामेण कृतः पाणिः सखेदकम्पः सन् । हिमेति । हिमं शीतमम्बु यस्याः । एतादृश्या गङ्गाया योऽनिलो वायुस्तेन विह्वलं विकलं तस्येत्यर्थः । स्पष्टमन्यत् । अत्र विरहिण्येव नायिका। सोत्कण्ठो नायकः। संभोगः शृङ्गारः । निदर्शनालंकारः ॥

 अथ श्रीरामः स्वकरस्पर्शमात्रेण सद्यः सावधानां सीतां प्रपूर्वपद्योक्तरीत्या पाणिग्रहणाद्युत्तरं क्रीडागारमुपानीत रुक्मिणी प्रति श्रीकृष्णो वा चुम्बनार्थित्वेन तधरं प्रवालपल्लवाधिक्येन वर्णयति-

अरुणमपि विद्रुमद् मृदुलतरं चापि पल्लवं बाले।
अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ॥ ८७ ॥

 अरुणमपीति । हे बाले, द्वादशवर्षोषोडशवर्षवयस्के प्रकृतनायिके । एतेनावश्यस्तवनीयत्वमप्रौढ्या ध्वन्यते। तवाधरः । अयमिति शेषः । अरुणमप्या-