पृष्ठम्:भामिनीविलासः.djvu/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
शृङ्गारोल्लासः

इत्यमराद्भालेनेत्यर्थः । रुचिः कान्तिः । परस्परमन्योन्यं विदधे । कृतेत्यर्थः । स्वदबिन्दुदीप्तिभाले तत्कान्तिश्च । तत्र प्रतिविम्बितेयतिचित्रमिदानीमेतदिति तत्त्वम् । अत्रान्योन्यालंकारः। शिष्टं तु सर्वं स्पष्टमेव । नायिकादिकं च प्राग्वदेव ।

 अथ कविः सीतारामयोरेव निरुपमं दाम्पत्यमिति द्योतयंस्तथाल एव तृतीय- पुमर्थसिद्धिरिति ध्वनयति-

परपुरुषदृष्टिपातवज्रा-
हति भीता हृदयं प्रियस्य सीता।
अविशत्परकामिनीभुजङ्गी-
भयतः सत्वरमेव सोऽपि तस्याः ॥ ९० ॥

 परपुरुषेति। परपुरुषाणां वकान्तभिन्न पुरुषाणां यो दृष्टिपातो इक्संचारः स एव वज्राहतिरशनिकर्तृकक्षतिस्तया भीता त्रस्ता सतीत्यर्थः । एतेन खरमणेतर- निरीक्षणे तस्याः प्राणान्ताधिकदुःसहमिति द्योतितम् । तेन च परमपातिव्रत्याव- धिरेव ध्वनितः । अतएव सीता जानकी प्रियस्य श्रीरामाभिधखप्रेयसः । हृदय. मन्तःकरणमेव । प्रकृतसंभोगपक्षे वक्ष एव । अविशत्प्रविवेश । तत्रैव तद्वयाभाव- संभवादिति भावः । सोऽपि श्रीरामोऽपि । परेति । परस्य या कामिनी सुन्दरी सेव भुजङ्गी सर्पिणी । 'वेश्यापतिभुजङ्गः स्यात्' इति कोशाद्विटस्त्री । वेश्येवि यावत् । तस्या एव प्रायः परपुरुषेक्षणप्रवृत्तिसंभवात् । तस्या यद्भयं तस्माद्धेतो- रित्यर्थः । तस्याः सीताया हृदयमित्यनुषज्यते । संभोगान्तं तद्विवेचनं तु प्राग्वदेव ।। तत्रापि सत्वरमेव न तु विलम्बेन । तेन भीत्यतिशयः सूचितः । इदं पूर्वार्धेऽप्य- पकृष्य योज्यम् । अविशदित्यादि पूर्ववदेव । एवं च प्रकृतरतान्ते गाढालिङ्गनेनैव ताभ्यां प्रसुप्तमिति संभोगपक्षे तात्पर्यम् । आद्यपक्षे तु सीतायाः सर्वदा श्रीराम- हृदयेकवर्तित्वस्य पूर्वार्धं वर्णितवात्तस्य तस्यां निरतिशयानुरागो व्यज्यते । एतेन रुक्मिण्यास्तथात्वेऽपि श्रीकृष्णस्य तथात्वान्न ततृतीयपुमर्थसिद्युदाहरणीभूतदा- म्पत्यमिति ध्वन्यते । एवमुत्तरार्धेऽपि श्रीरामस्य निरन्तरे सीतैकान्तःकरणवर्ति- त्ववर्णनतस्तस्या अपि तस्मिन्नसौ तादृशः सूच्यते । अत्र स्वकीयावेव संभोगैक- लीनौ नायिकानायकौ । स एव शृङ्गारः । रूपकगम्योत्प्रेक्षे अलंकारौ ॥

 ततः क्षणान्तरे समुत्थितां सीतां व्युत्थितः श्रीरामः प्रपूर्वपद्यप्रकृतः श्रीकृष्णो वा रुक्मिणीं पुनः सुरतलालस्येन स्तनमर्दनस्यैवालिङ्गनादिना कामशास्त्रे संभोगा- रम्भकालिकत्वात्तद्वर्णनं कुर्वन्नत्यर्थं प्रोत्साहयति-जम्बीरेत्यादि पञ्चभिः ।। | भा० वि० ९