पृष्ठम्:भामिनीविलासः.djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
शृङ्गारोल्लासः

पैन काकाक्षिगोलकन्यायेन वोभयान्वयि । तेन निरुक्तचुम्बने दृढजागरपर्यन्तत्वं ध्योत्यते । तादृकोपाद्यपगमपर्यन्तत्वं च । एवमालिङ्गनेऽपि यावत्स्वकृततिरस्कृति- जनितदुःखध्वस्तिपूर्वकरतिसमुत्थितिपर्यन्तत्वं च । सस्वज आलिङ्गित इत्यन्वयः। तस्मान्नैवं भवत्या विधेयं किंतु मद्वाक्यानादरजन्यदुष्कृतमसंपाचैव क्षणान्तरे तावत्सयां स्वस्या कामानुतापादिपीडायामवश्यप्रदास्यमानालिङ्गनाद्यचैव मह्यं प्रदेयमित्याशयः । अत्र खकीयैव मध्या संबोध्या नायिका । कुशलो नायकः । काव्यलिङ्गमलंकारः ॥

 एवं श्रीकृष्णवाक्यमाकर्ण्य रुक्मिण्येव तं प्रति नाहं गोपिकावत्परकीयास्मि किंतु परमधीरा खकीयैवास्मीति तद्वृत्तान्तवर्णनेन द्योतयति-

चेलाञ्चलेनाननशीतरश्मि
संवृण्वतीनां हरिदृश्वरीणाम् ।
व्रजाङ्गनानां स्मरजातकम्पा-
दकाण्डसंपातमियाय नीवी ॥ ९७ ॥

 चेलाञ्चलेनेति । भो नाथ, चेलाञ्चलेन निचोलपल्लवेन । आननं वदनमेव शीतरश्मिर्हिमकरस्तमित्यर्थः । न तु मुखपद्मम् । आवृण्वतीनामाच्छादयन्तीनाम् । एवं च कृष्णाभिसारिकाणां तासां प्रकाशभीत्या खमुखचन्द्रावरणमुचितमेवेति सूचि- तम् । मुखमाच्छाद्य गमनं तत्स्वभाव एवेति भावः । हरीति । अत्र युष्मदादिप- दावश्यकत्वेऽपि लज्जादिना तदनुक्तिननार्थकहरिपदोक्तिश्च गुण एव । हरि कृष्ण- पक्षीयं चन्द्र, पक्षे श्रीकृष्णं वामेव द्रष्टुं शीलं यास तासामित्यर्थः । चन्द्रदर्शन- शीलं तु खगोपनार्थं तदुदयभीतिशङ्कयैवेत्याशयः । अकाण्डेति। आकस्मिकपतन- मित्यर्थः । न तु श्लथनम् । तेन नग्न एवाभवन्निवि ध्वन्यते । स्पष्टमन्यत्। ‘काण्डो नाले तरुस्कन्धे बाणेऽवसरनीरयोः' इति विश्वः । ‘यमानिलेन्द्रचन्द्रार्कवि- ष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिन कपिले त्रिषु ॥ इत्यमरः । अत्र प्रकृताप्रकृते स्वकीयापरकीये धीराधीरे नायिके । कामुको नायकः । परिक- रादिरलंकारः ॥

 अथ कविः प्रपूर्वपद्यप्रबोधितायाः सीतायास्तद्बोधवेशादेव पूर्वपद्योकरीत्या खधैर्य ध्वनयन्त्याः प्रमोदभराइक्मिण्या वा तत्कालोचितत्वेन संजातं स्मितं चर्णयति-