पृष्ठम्:भामिनीविलासः.djvu/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
भमिनीविलसे

अधरेण समागमाद्रदाना-
मरुणिस्रा पिहितोऽपि शुद्धभावः।
हसितेन सितेन पश्मलाक्ष्याः
पुनरुल्लासमवाप जातपक्षः ॥९८॥

 अधरेणेति । पक्षमलाक्ष्याः प्रशस्तनेत्ररोमायाः । प्रकृतकान्ताया इत्यर्थः । एतेन निरुक्तावयवोपलक्षितपयावत्स्रीगुणवैशिष्ट्यत्तदीयवक्ष्यमाणस्मिते वर्णनीयगु- णगौरवं व्यज्यते । रदानां दन्तानाम् । अधरेण सह समागमात् । अरुणिन्ना तदारकत्वेन । पिहितोऽप्याच्छादितोऽपि । शुद्धभावः शुक्लत्वम् । सितेन शुभ्रेण हसितेन मन्दस्मितेन । जातपक्षः सन्संजातसहायः सन् । पुनरुल्लाको विकास- मवाप प्रापेति संबन्धः । ननु हसितक्षणेऽपि नाधरसमागमापनय स्तथा च कथं तस्य वदनविकासनानुकूलमानसप्रसादप्रयुक्तक्रियाविशेषात्मकस्य तत्कालस्फुरित- दन्तकान्तिनिष्ठसितवस्य तत्रारोपेणापि सितत्वमिति चेत्सत्यम् । निरुक्तवदनवि- कासे हि नासाभरणीयमौक्तिकादिसितकान्तीनां दन्तपर्यन्तप्रवेशसंभवेन प्राक्तना- धरारुणिमसंक्रमापलापेन खाभाविकतत्सितत्वप्राकट्यसंभवात् । तस्माद्युक्तमेवोक्तक- ल्पनमित्याकूतम् । अत्र प्रसन्ना नायिका । पूर्वरूपमलंकारः । तदुक्तम्-‘पुनः खगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठांशुनीलोऽपि शेषः खयशसा सितः ॥' इति । अन्यत्सर्व प्राग्वदेव ।।  ततः श्रीरामः श्रीकृष्णो वा सीताया रुक्मिण्या वा निरुक्तस्मितमेव प्रार्थितसुर- तप्राप्तये स्तौति--

सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव ।
वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ ९९ ॥

 सरसिरुहेति । सरसिरुहपदं तु मनसिजादिपदवत्साध्वेव । कोशे तु ‘सारसं सरसिरुहम्' इति, कासारः सरसी सरः' इति सरसीशब्दं गृहीत्वैवोकमित्यवि- रोधः । हे मृगाक्षि । उपलक्षणमिदं यावत्सौन्दर्यादेः । अयि यावत्स्रीगुणविशिष्ट- स्वरमणीत्यर्थः । एतेन वक्ष्यमाणार्थयोग्यता द्योविता । तव । सरसीति । सरसि- रुहं कमलं तस्य यदुदरं तद्वत्सुरभौ सौगन्ध्यशालिनि मनोज्ञे वेत्यर्थः । अत्र ‘तृती- यादिषु भाषितपुंस्कं पुंवद्गालवस्य' इति वैकल्पिकपुंवद्भावानपुंसकत्वेऽप्युक्तरूपस्या- नादिशब्दवत्साधुत्वं बोध्यम् । एतेन सौगन्ध्यात्ताम्बूलतर्कणं मुखे परास्तम्। एता- दृशे । अधरितेति । अधरितं तुच्छीकृतं बिम्बं पकतुण्डीफलं येन तादृशोऽधरो