पृष्ठम्:भामिनीविलासः.djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
शृङ्गारोल्लासः

यस्य तत्रेयर्थः । एतेनाधरोष्ठरागात्तत्र तत्परास्तम् । एतादृशे च । मणीति । मणय इव रदना यत्र । एतेन पूगखण्डादिनापि तत्परास्तम् । एतादृशे वदने मुखे । ताम्बूलं तचर्वणादि । वयं केन लिन लक्षयेम तर्कयेम । तल्लिङ्गं त्वं वद कथयेत्यन्वयः । तस्मात्तादृशलिङ्गाभावात्ताम्बूलसेवनं विनैव वन्मुखस्य तथात्वेन त्वं त्रैलोक्यसुन्दर्येवासीत्याशयः । अतः सद्यः सुरतं वितरेत्याकूतम् । लुप्तोपमादि- रलंकारः । अन्यत्सर्वं प्राग्वदेव ॥

 एवं स्तुतापि सीता रुक्मिणी वा श्रीरामस्य श्रीकृष्णस्य वा प्राक्तनरतिक्ला- न्तिवशान्निकटे केवलं निद्राणाप्यर्थोन्मीलितलोचना सती सानुरागं केवलं मुखमेव पश्यतीति कविराह-

शयिता सविधेऽप्यनीश्वरा
सफलीकर्तुमहो मनोरथान् ।
दयिता दयिताननाम्बुजं
दरमीलन्नयना निरीक्षते ॥ १०० ॥

 शयेतेति । अपिना सामग्रीप्राचुर्य सूचितम् । दयिता प्रकृतवनिता । दयि- तेति । स्वकान्तास्य कमलमित्यर्थः । इह रविश्रान्तोक्कैव नायिका । अपरमखिलं पूर्ववदेव ॥

 एवं सानुरागरागमन्मीलितया केवलं पश्यन्तीमेव परमसौकुमार्यभरेणाति- तरसुरतान्तक़ान्तिवशेन पुनः प्रार्थनाशतेनाप्यालिङ्गनादिसंभोगप्रदानेऽनुत्सुकतया केवलं खनिकटे शयानां जानकी प्रति श्रीरामो रुक्मिणीं प्रति श्रीकृष्णो वा यदि त्वयाद्य मद्याज्ञाशतेनापि खयंग्रहाश्लेषादिपूर्वकं रतिप्रदानं मह्यं न क्रियते तर्हि मयेतःपरं श्वस्तनरात्रावत्र रतिमन्दिरे त्वां प्रति द्रुतं नैवागम्येत तदानीं त्वं याम- चतुष्टयवियोगसंतप्ता सत्यतीव व्याकुलीभविष्यसीत्यभिसंधाय कयाचिद्विरहिण्या साध्व्या सह कस्यचित्पान्थस्य संवादं कथयति-

किमिति कृशासि कृशोदर किं तव परकीयवृत्तान्तैः ।
कथय तथापि मुदे मम कथयिष्यति पथिक तव जाया १०१

 किमितीति । हे कृशोदरि । न तु तन्वि । एवं च मम नैसर्गिकमेव सर्वाङ्ग- कार्यमतः कथमयं न त्वत्प्रश्नस्त्वामेव भ्रान्तत्वं नयेदित्यापत्तिः प्रत्युका । त्वं