पृष्ठम्:भामिनीविलासः.djvu/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
भमिनीविलसे

किमिति कृशासि । एतेन कारुणिकत्वं खस्य व्यज्यते । तेन यदि विरहप्रयुक्तस्म- रशरव्यथया तथासि तर्हि तामहं सद्यः शमयिष्यामि सति त्वदानुकूल्य इति ध्योत्यते । एवं चातुर्यातिशयेन तदाशयं निश्चित्य पातिव्रत्यादच्युतधैर्यसौ तं तिर- स्करोति-किमित्यादिद्वितीयपादेन । तत्रापि ‘कामातुराणां न भयं न लज्जा' इत्युक्तेस्ताइक्वादेव तद्वचोमात्रलाभलालस्येन पुनः पृच्छति–कथयेति तृतीयेन । पुनरतितिरस्कृतावपि स नैवोपरमेदिति स्वस्याः साध्वीत्वं ध्वनयन्ती तमुपरमन्ती चोत्तरयति--कथयिष्यतीति चरमेण । एवं च सा यथा वद्विरहेण साध्वी चेत्कृ- शैव वयावलोक्येत तथाहमपि वकान्त वियुक्तलात्कृशास्मीत्यतस्तया शीघ्र खगृह प्रत्येव गन्तव्यमित्याशयः । प्रकृते तु तस्मात्त्वयाधुना मद्वचनादरं कृत्वा मह्यमा- लिङ्गनायखिलरतिसुखं पुनरपि शीघ्रं देयमेव सुप्रसन्नतयेति तात्पर्य भगवतः। अत्र प्रकृतौ रतन्तक्लान्तचतुरतरस्मरातुरौ स्वकीयावेव मध्याधीरललितौ नायिका- नायकौ । संभोगः शृङ्गारः । अप्रकृतौ तु परकीयौ विरहिणीसतीपान्थकामुको । विप्रलम्भः शृङ्गारः । उक्तिप्रत्युक्तिरलंकारः ॥

 ततः संजातविवेका तावत्कालविलम्बेन पुनराविभूतमदनी च सीता श्रीरामेण रुक्मिणी वा श्रीकृष्णेन सुप्रसन्नत्वेन खमालिङ्गनादि प्रयच्छन्ती तद्रात्रौ यथेच्छ मुपभुक्तापि प्रातःकाले व्युत्थिता सती गृहदीर्घिकावर्तिबिसिनीविकासमनु निर्मुक्त: षट्पदैस्तद्वदने निरुपमारविन्दत्वं सार्वकालिक विकासशालिवादिना निर्णीय लोको- तरमकरन्दादिलोभेन तत्र परिभ्रमणे विधीयमाने तदीक्षणवशेन पुनः समुद्दीपितम- दनविकारतया तदधरामृतपानयाचने कृते सति ‘प्राणं वा एते प्रस्कन्दन्ति यद्दिवा रत्या संयुज्यन्ते' इति श्रुतेर्दिवा रतिविषयकनिषेधे जागर्ति सति किमिदं स्मरपा- रवश्यं विश्वेशनशीलानां सर्वज्ञानामपि भवतामित्याशयेन बहिरतिसक्रोधवीक्षण- परैवेक्षन्ती कंचित्किमित्यद्य प्रातरुत्थाने विलम्बोऽभूदिति पृच्छन्तं रहःसुहृदं प्रति सोदन्तं तदृश एव सर्वोत्कृष्टत्वेन वय॑न्ते-

वदनारविन्दसौरभलोभादिन्दीवरेषु निपतत्सु।
मय्यधरार्थिनि सुदृशो दृशो जयन्त्यतिरुषापरुषाः ॥ १०२ ॥

इति पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे।

शृङ्गारोल्लासो द्वितीयः ।