पृष्ठम्:भामिनीविलासः.djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

करुणविलासः ।

तृतीयः प्रमोदः

 एवं तृतीयः कामाख्यः पुरुषार्थोऽपि स्वकीयया सहैव संपाद्यो न परकीययापि सह नापि परकीययैव सहेति श्रीरामादिनिदर्शनेन द्योतयित्वाधुना क्रमप्राप्तस्य मोक्षाख्यचतुर्थपुमर्थस्य ज्ञानैकसाध्यत्वात्तस्य च भक्तिविरक्त्यादिप्रयोज्यत्वात्तस्यापि प्रायः शोकमन्तरा संभवाभावान्निवेदस्थायिभावाख्यं शान्तरसं चतुर्थविलासे वर्णयिष्यनत्र तृतीये विलासे शोकस्थायिभावं करुणरसं श्रीरामस्य सीतारसातलप्रवेशोत्तरकालिकैवाक्यैरेव व्यनक्तिदैवे परागित्याद्या प्रकरणसमाप्ति ।

दैवे पराग्वदनशालिनि हन्त जाते
याते च संप्रति दिवं प्रति बन्धुरते।
कस्मै मनः कथयितासि निजामवस्था
कः शीतलैः शमयिता वचनैस्तवाधिम् ॥ १ ॥

 दैवे इति । जानक्या रसातलप्रवेशादिकं तूक्तं महारामायण एवोत्तरकाण्डे-- ‘सर्वान्समागतान्दृष्ट्वा सीता कौशेयवासिनी । उदङ्मुखा ह्यधोदृष्टिः प्राञ्जलिर्वाक्यमब्रवीत् ॥ यथाहं राघवादन्यं मनसापि न चिन्तये। तथा मे माधवी देवी विवरं दातुमर्हति ॥ तथा वदन्त्याः सीतायाः प्रादुरासीत्समन्ततः। भूतलाद्दिव्यमत्यर्थ सिंहासनमनुत्तमम् ॥ ध्रियमाणं शिरोभिस्तदुदतिष्ठद्रासदम् । दिव्यं दिव्येन वपुषा नागैरमितविक्रमैः ॥ तस्मिस्तु धरणीदेवी सीतां संगृह्य बाहुना। स्वागतं तेत्युवाचैनामासने चोपवेशयत् ॥ तामासनगता सीतां प्रविशन्तीं रसातलम् । पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥” इत्याद्यासर्गान्तं तद्विस्मयादिकमुक्वाग्रिमसर्गे तावच्छीरामशोकोऽप्युक्तः--‘दण्डकाष्ठमवष्टभ्य शोकव्याकुलितेन्द्रियः । अवाक्शिरा दीनमना रामोऽप्यश्रूण्यवर्तयत् ॥ क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् । अभूतपूर्वशोको मे पुनः संदष्टुमिच्छति ॥” इति । हे मनः ।। एतेन वस्तुतः स्वस्याखण्डानन्दाद्वैतसच्चिदानन्दब्रह्मैकरूपत्वेन शोकलेशस्याप्यभावेऽपि लोकानुग्रहार्थ मायिकमनुष्यनाट्यपटुलीलाविग्रहशालितया जगदीशस्यापि मे यदा विषयसङ्गेन शोकत्वं तदा जीवकोटिनिविष्टानां भवतां कैव कथेत्यतः सर्वात्मना विषयसङ्गपरित्याग एवाहरहः कार्य इति मनःसंबोधनतात्पर्य व्यज्यते । दैवे प्रारब्धकर्मणि । परागिति । पराङ्मुख इत्यर्थः । जाते सति । चः समुचये । अत एव संप्रतीदानीं बन्धुरने ‘बन्धु बन्धूकपुष्पे स्याद्वन्धुभ्रतरि बान्धवे” इति