पृष्ठम्:भामिनीविलासः.djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
शृङ्गारोल्लासः

विश्वाद्वन्धूनां बान्धवानां सर्व संबन्धिनां मध्ये रत्नमिव श्रेष्ठ तस्मिन् । एतादृशे सीताख्ये कलत्र इति यावत् । हन्तेति खेदे । दिवं प्रति रसातलाभिधबिलस्वर्ग प्रतीत्यर्थः । याते गते सति । एवं चैतस्य दुष्परिहत्वाद्वक्ष्यमाणाक्षेपार्हदुःखहेतुत्वं ध्वन्यते । त्वं निजां स्वकीयाम् । अवस्थां लोकोत्तरशोकशां कस्मै कथयितासि ।। न कस्मा अपीत्यर्थः । एतेन ‘सुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु योषित्सु । करुणाशालिनि भूपे निवेद्य दु:खं सुखी भवति ॥' इत्युक्तदुःखशामकस्थलवैकल्यं व्यज्यते । तेनास्य दुःखस्य लोकविलक्षणत्वं सूच्यते । अत एव कः शीतलैः शिशि- वैचनैरमृतोपमसान्ववाक्यैरित्यर्थः । तत्राधिं शमयिता । न कोऽपीयन्वयः । एवं च निरवधिक एवायं शोकस्त वेति भावः । इह यावत्प्रकरणसमाप्ति संतप्तो नायकः । करुण एव रसः । काव्यलिङ्गादिरलंकारश्च तत्र तत्र यथार्थमूह्यः ॥

प्रत्युद्गता सविनय सहसा पुरेव
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः ।।
मामद्य मञ्जरचनैर्वचनैश्च वाले
हा लेशतोऽपि न कथं शिशिरीकरोषि ॥ २ ॥

 प्रत्युद्गतेति । अयि बाले । यद्यप्यस्यास्तदानीं परोक्षवेन संबोधनानईखमेव तस्य प्रत्यक्षैकविषयत्वात्तथापि वक्तुर्विरहोत्कर्षेण तदेकमनस्कतया मानसीं तां पुरःस्थितामिवेक्षित्वैव तदौचित्यमिति ज्ञेयम् । एवमेवाग्रेऽपि यावत्संबोधनेषु । बोध्यम् । त्वं पुरेव प्रागिव । एतेन स्मृत्याख्यव्यभिचारिभावो व्यज्यते । सहसा ।। एवं च स्वागमनजन्यसंभ्रमः सूच्यते । तत्रापि सविनयं विनयपूर्वकं यथा भवति तथा न त्वौद्धयेन । एतेन सतीधर्मधौरेयत्वं ध्वन्यते । प्रत्युद्गता । स्वरतिमन्दि- रान्मन्दं मन्दं यदभिमुखमागता सतीत्यर्थः । स्मरस्य मदनस्य सचिवैः । समर्थस- हायैरित्यर्थः । इदं हि विशेषणे सर्वतृतीयाबहुवचनान्तविशेष्येष्वपि योज्यम् । एता- दृशैः स्मेरैर्मन्दसैः । तथा । सरसेति । सप्रेम निरीक्षणैरित्यर्थः । एतेन रत्युत्कर्षः सूचितः । तथा। मञ्जिवति । भोः प्राणनाथ, चरणारुणराजीवरेणवोऽनन्यया मयाचेदं मोदेनैवद्य निवेद्यत इत्यादिरूपातिरम्यरचनैरित्यर्थः । एतेन लौकिक- शास्त्रीयोभयचातुरीचमत्कारचञ्चुरत्वं सूचितम् । एतादृशैर्वचनैश्च वाक्यैरपीत्यर्थः । हा इति खेदे । एवं च तत्कालं मूर्च्छया भूतलनिपातो ध्योत्यते । मां लेशतोऽपिषदपि

कथंयोत्य न शिशिरीकरोषि शीतलयसीयन्वयः ॥