पृष्ठम्:भामिनीविलासः.djvu/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
भामिनीविलासे


सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता
विद्यापि खेदगलिता विमुखीबभूव ।
सा केवलं हरिणशावकलोचना मे
नैवापयाति हृदयादधिदेवतेव ॥ ३ ॥

 सर्वेऽपीति । अत्र क्रमात्पूर्वार्धपादाभ्यां गीतादिविषयान्तरैश्चित्तशान्तिसं- पादनमद्वैतचितिचिन्तनेन वा तत्संपादनं च व्युदस्तम् । अपिशब्दाभ्यां शोको- त्कर्षः सूचितः । एवमुत्तरार्धन तु सीताविषयकं श्रीरामस्य तटस्थ्यं ध्यानतो ध्वनि- तम् । शिष्टं सर्व स्पष्टमेव । ‘पृथुकः शावकः शिशुः' इत्यमरः । उपमालंकारः ॥

निर्वाणमङ्गलपदं त्वरया व्रजन्त्या
मुक्ता दयावति दयापि किल त्वयासौ ।
यन्मां न भामिनि निभालयसि प्रभात-
नीलारविन्दमदभङ्गकरैः कटाक्षैः ॥ ४॥

 निर्वाणेति । भो भामिनि । एतेन ‘कोपना सैव भामिनी' इति कोशाकि कोपवशादन्तर्धानमापन्नासीत्युत्प्रेक्षा व्यज्यते । त्वं यद्यस्मात्कारणान्माम् । प्रभा- तेति । प्रभाते प्रातःकाले यानि नीलारविन्दानीन्दीवराणि । एतेन तेषां विकासो- न्मुखत्वं तात्कालिकृपवनचापल्यं च सूचितम् । तेषां यो मदः सौन्दर्यगर्वस्तस्य यो भङ्गस्तं कुर्वन्तीति तथा । एवं च कटाक्षेषु लोकोत्तरनीलवचापल्यादि च द्योत्यते । एतादृशैः कटाक्षेर्न निभालयसि नैवावलोकयसि । तस्माद्धे दयावति नैसर्गिकानुकम्पाशालिनि प्रिये । निर्वाणेति । अमृतरूपाद्वैतशिवात्मस्थानमित्यर्थः । अत एव खरया शीघ्रं व्रजन्त्या गच्छन्त्या एतादृश्या वयासों खाभाविकत्वेन प्रसिद्धा । दयापि मद्विषयककृपापि मुक्ता किल त्यतैवेति संबन्धः । न हि धर्म- सत्त्वे निर्धर्मककैवल्याप्तिर्घटत इत्याकूतम् ॥

धृत्वा पदस्खलनभीतिवशात्करं मे
यारूढवत्यसि शिलाशकलं विवाहे।
सा मां विहाय कथमद्य विलासिनि द्या-
मारोहसीति हृदयं शतधा प्रयाति ॥ ५॥

 व्धृत्वेति । 'अश्मेव त्वं स्थिरा भव' इति मन्त्रेण कन्यायाः शिलाधिरोहणं प्रसि- इमेव वैवाहिके। द्याम् । बिलस्वर्गाख्यरसातलगमनप्रार्थनक्षणाविर्भूतभूमिदेव्यङ्कि-