तरत्नसिंहासनमित्यर्थः । विलासिनीति संवोधनेन स्वाभाविकविलासस्तव मां विनर
कथं सिद्ध्येदतः खर्गाप्तिरपि निःस्वभावत्वेन वरूपशून्यायाः कथं पुरुषार्थ इत्या-
क्षेपान्तरमपि द्योत्यते । इति हेतोमै हृदयमिति योजना ॥
निर्दूषणा गुणवती रसभावपूर्णा |
निर्दूषणेति । विशेषणचतुष्टयं तु पक्षद्वयेऽपि स्पष्टमेव । श्रवणेति । श्रवणं श्रोत्रं तस्य कोमलानुद्वेजकत्वादतिप्रिया वर्णराजिणितादिक्षणोच्चारिताक्षरपङ्किः । पन्ने ‘तपःखाध्यायनिरतम्' इत्यादिग्रथिताक्षरसरणिर्यस्याः सा तथेत्यर्थः । एतादृशी सः पूर्वानुभूता । मामकीनेति । ममेयं मामकीना मदेकमुख्यवर्णनपरत्वेन मत्संब- न्धिनी श्रीमद्वाल्मीकिविरचितमहारामायणाभिधकवितेवेति यावत् । स्पष्टमन्यत्। अत्र कविवाक्यत्वभ्रान्तिस्त्वनालोचितपूर्वापरतात्पर्यतया विदुषामपि केषांचिदास्तां नाम परिपक्वाम्रफलविशेषे सिन्दूरधीरिव का नः क्षतिस्तावतावादितरसानामितर- रसानां चेति दिक् ॥
चिन्ता शशाम सकलापि सरोरुहाणा- |
चिन्तेति । असमामतुल्याम् । निरुपमामित्यर्थः । अयासीत्। प्रापेति यावत्। शिष्टं तु स्पष्टमेव । इह क्रमेण त्रिपाद्यां चरमचरणेन सीतालोचनादेराननस्य वनस्य चाभावो हेतुत्वेन ध्वनितः ॥
सौदामनीविलसितप्रतिमानकाण्डे |
सौदामनीति । तडित्सौदामनी विद्युत्' इत्यमराद्विद्युद्विक्रीडितसमत्वेन क्षणिकानित्यर्थः । एतेन दशसहस्रवर्षपर्यन्तत्वेऽपि वक्ष्यमाणविषयभोगेष्वनुपम-