पृष्ठम्:भामिनीविलासः.djvu/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
भामिनीविलासे

सुखत्वेन तद्भुसकाले क्षणिकलमतिरुचितैवेति ध्योतितम् । एतादृशान् । महेन्द्रेति । महानिन्द्रो येन ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेर्हिर- ण्यगर्भान्तसकलविषयानन्दकूटस्थस्याद्वैतब्रह्मानन्दस्यैव ये भोगा इव तानित्यर्थः । एतेन तेष्वलौकिकविषयानन्दत्वं व्यज्यते । कियन्त्यपि दिनानि यत्किचित्कानि- चिदहानि । मन्त्रेति । मन्त्रेण संध्यादिकरणगूढ विचारेणोज्झितस्यक्तस्तस्य । विष- यासक्त्या प्रमादेन तस्य विस्मृतत्वेनैतस्य दौथ्यमवेक्ष्यते । नैव परित्यक्तस्यैवे- त्यर्थः । मम करतोऽकाण्डेऽनवसर एवाकस्माद्वा निर्गतासीति संबन्धः ॥

केनापि मे विलसितेन समुद्रतस्य
कोपस्य किं नु करभोरु वशंवदाभूः ।
यन्मां विहाय सहसैव पतिव्रताप
यातासि मुक्तिरमणीसदनं विदुरम् ॥ ९॥

 केनापि मे विलसितेन । लीलाचरितविनोदादिनेत्यर्थः। समुद्रतस्याविभू- तस्य । वशंवदा । स्वाधीनेत्यर्थः । अभूः किं नु । मुक्तीति । एवं च सख्यात्प- तिव्रताया अपि तव तत्र गमनौचित्येऽपि पातिव्रत्यादेवेदमनुचितमेवेयपिना ध्वन्यते । शिष्टं तु स्फुटमेव ॥

काव्यात्मना मनसि पर्यगमन्पुरा मे
पीयूषसारसरसास्तव ये विलासाः ।
तानन्तरेण रमणीरमणीयशीले
चेतोहरा सुकविता भविता कथं नः ॥ १० ॥

 काव्यात्मनेति । हे रमणीरमणीयशीले रमणीनां सुन्दरीणां मध्ये रमणीयं पातिव्रत्यादिगुणैर्लोकोत्तरं शीलं चारु चरितं यस्याः सा तथा । तत्संबुद्धावि- त्यर्थः । एतेन भार्यान्तरोद्वाहशङ्का प्रत्युक्ता । पुरा मे मनसि तव ये विलासाः काव्यात्मना । श्रीवाल्मीकि विरचितमहारामायणात्मककाव्यरूपेणेत्यर्थः। तत्र सीता- वर्णनस्य प्रचुरतरसत्त्वात् । पर्यगमन् । पूर्वं तच्छिष्यकुशलवगीतश्रवणद्वाराभिसं- जग्मुरिति यावत् । ‘पर्यणमन्' इति पाठे तु परिणामप्राप्ता इत्यर्थः । परिणामो हि। तात्त्विकोऽन्यथाभावः । स तु प्रकृते वास्तविको नैव संभवति । विलासानां विलो- लावलोकनादीनां क्रियाविशेषात्मकत्वेन त्रिक्षणावस्थायित्वात्काव्यस्य च प्रबन्धवि- शेषात्मकवाच दुग्धदध्यादिवत्तयोः परिणामिपरिणामभावस्य हिमहेमाचलवत्व-