पृष्ठम्:भामिनीविलासः.djvu/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
भामिनीविलासे

न्दपदव्यावयव्यावृत्तिपूर्वकमृदुत्वबोधकत्वेन तस्य वैयर्त्यमेव, तथापि शोकपारव- श्येन प्रकृतवक्तुस्तादृगनवधानध्वनने करुणरसपरिपोषकत्वात्सार्थक्यमेवेति ध्येयम् । सुधयामृतेन । यो म परिषिच्य विकसितैः। नेत्रेति । नयनेन्दीवरैः । बहुवचनं तु तत्कटाक्षाभिप्रायेणैव । अनिशं समीजे सम्यगाराधयामासेयन्वयः । कामेति । कामस्येश्वरी । दातृत्वेन नियन्त्रीत्यर्थः । शिष्टं तु सरलमेव । गृहदेवता हि लोके गृहिभिः पूज्यतेऽभिषेकाद्युपलक्षितानेकोपचारैः । प्रकृते तु सैवैनमर्चयामासेति महदाश्चर्यम् । स च पुमर्थावधिश्च ध्वनितः ॥

भूमौ स्थिता रमण नाथ मनोहरेति
संबोधनैर्यमधिरोपितवत्यसि द्याम् ।
वर्ग गता कथमिव क्षिपसि त्वमेण-
शावाक्षि तं धरणिधूलिषु मामिदानीम् ॥ १३॥

 भूमाविति। हे एणशावाक्षि, त्वं भूमौ स्थिता सती यम् ‘रमण, नाथ, मनोहर इति संबोधनैद्य स्वर्गमधिरोपितवत्यसि । तं मामिदानीं खगं गता सती धरणि- धूलिघु कथमिव क्षिपसीति योजना । एणो हरिणस्तस्य शावः शिशुः । स्पष्टमपरम् ॥

लावण्यमुज्वलमपास्ततुलं च शीलं
लोकोत्तरं विनयमर्थमयं नयं च ।
एतान्गुणानशरणानथ मां च हित्वा ।
हा हन्त सुन्दरि कथं त्रिदिवं गतासि ॥ १४ ॥

 लावण्यमिति । उज्वलं लावण्यमित्यादि यथाक्रम मेकैक विशेषणमेकैकस्मि- गुणेऽन्वितं बोध्यम् । अशरणान्न विद्यते शरणं रक्षितृ येषां तान् । एतेनान्य- त्रैते नैव वर्तन्त इति द्योतितम्। एतादृशानेतान्गुणान् । अथ मां चेत्यादि सरल- मेव । एवं च साहचर्यात्वस्याप्यशरणत्वं व्यज्यते । त्रिदिवं तृतीया द्यौर्यस्मात्स त्रिदिवः । पूर्वोक्तरीत्या भौमवर्गस्थमित्यर्थः ॥

कान्त्या सुवर्णवरया परया च शुद्ध्या
नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् ।
चेतोहरामपि कुशेशयलोचने त्वां
जानामि कोपकलुषो दहनो ददाह ॥ १५ ॥