पृष्ठम्:भामिनीविलासः.djvu/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
करुणविलासः ।

 कान्त्येति । खिकाः । अग्निसंबन्धिनीरित्यर्थः । शिखा ज्वालाः। क्षिपन्तीम् । तिरस्कुर्वाणामिति यावत् । चेतोहरामपि मनोहरामपि । हे कुशेशयलोचने । अयि शतपत्रनेत्रे इत्यर्थः । त्वाम् । कोपकलुषः । प्रागुकखशिखातिरस्कारिलाद्गौरिमादि- गुणगरिमजन्यरोषदूषितचित्तः सन्निति यावत् । तत्रापि खभावाद्दहनः कृशानुरेव ददाहेत्यहं जानामीति गम्योत्प्रेक्षया संबन्धः । यद्यप्यत्र सीता प्रत्यक्षतो रसातलं गतैव तथापि शोकोन्मादात्तस्यामुक्तहेतुकदहनदग्धवोत्प्रेक्षणमुचितमेवेति भावः । अपिना दाहानौचित्यं द्योत्यते । एवं परया शुद्ध्येति परमपातिव्रत्यम् ॥

कर्पूरवर्तिरिव लोचनतापहन्त्री
फुलाम्बुजस्रगिव कण्ठसुखैकहेतुः ।
चेतश्चमत्कृतिपदं कवितेव रम्या
नम्या नरीभिरमरीव हि सा विरेजे ॥ १६॥

 कर्परेति । 'अनुक्रोशोऽप्यथो हसः' इत्यमरादमरीव हि सा । अमरीव देवीव । एतादृशी सा प्रकृता सीता । इदानीं नरीभिर्नरस्त्रीभिर्नम्या खर्गतलेन नमस्कारार्हा एतादृशी विरेजे शुशुभ इति योजना । एवं चैतावत्कालं तासाम- प्यसौ दृष्टिगोचरापि नाभूदिति तदीक्षणदौर्लभ्यं ध्वन्यते । तत्र हेतुरवशिष्टत्रि- पाया रम्येति कविताविशेषणमेव । एवं च सबाह्याभ्यन्तरिन्द्रियकायसुखसा- धनत्वं तस्यां ध्वनितम् ॥

स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं
या दृष्टवत्यसि न कंचन साभिलाषम् ।
सा संप्रति प्रचलितासि गुणैर्विहीनं
प्राप्तुं कथं कथय हन्त परं पुमांसम् ॥ १७ ॥

 खप्तान्तरेऽपीति । हे भामिनीति । एतेन ‘कोपना सैव भामिनी' इत्यमरार्तिक कोपविशेषपारवश्यादेवैवं कृतवत्यसीत्युत्प्रेक्षा ध्वन्यते । या खं खपान्तरेऽपि पत्यु- रन्यं साभिलाषं यथा भवति तथा कंचन न खलु दृष्टवत्यसि । सा संप्रति । हन्तेति खेदे। गुणैर्विहीनम् । एतेन परकीयाणामपि तत्राभिलाषविषयवाभावाकिं पुनः वकीयायास्तव तथालमिति द्योत्यते । एतादृशं परं पुमांसमद्वैतात्मानं प्राप्तुं कथं प्रचलितासीवि कथयेत्यन्वयः ॥ | भा० वि० १०