पृष्ठम्:भामिनीविलासः.djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
भामिनीविलासे

दयितस्य गुणाननुस्मरन्ती
शयने संप्रति या विलोकितासीत् ।
अधुना खलु हन्त सा कृशाङ्गी
गिरमङ्गीकुरुते न भाषितापि ॥ १८ ॥

 दयितस्येति । दयितस्य प्रियस्य । ममेति यावत् । गुणाननुस्मरन्ती एता- दृशी या संप्रतीदानीं शयने विलोकितासीत् । हन्तेति खेदे । सो कृशाङ्गी भाषि- तापि गिरमपि निरुक्तवाक्यावलिमपि । अधुनेदानीमेव नाङ्गीकुरुते खलु नैव प्रत्युत्तरप्रदानेन चेष्टासूचितानुमोदनेन वो स्वीकरोतीति संबन्धः । शोकजन्यो- न्मादवशीदेवेदं सर्वमित्याशयः । अन्यथा रसातलप्रवेशोत्तरे तद्दर्शनादेः सुतरा- मसंभवात् ॥

 अथ ब्रह्मादिभिर्बोधितः सन् श्रीरामः किंचित्सावधान इव तद्वाक्यादेः सर्वज- नस्तव्यत्वं व्यनक्ति-

रीतिं गिराममृतवृष्टिकरीं तदीयां
तां चाकृतिं कृतिवरैरभिनन्दनीयाम् ।
लोकोत्तरामथ कृतिं च सुधारसा
स्तोतुं न कस्य समुदेति मनःप्रसारः ॥ १९ ॥

पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे

करुणाविलासस्तृतीयः ।

 रीतिमिति । कृतिवरैः । कुशलश्रेष्ठैरित्यर्थः । सुघेति । इदं हि विशेषणं विशेष्य- त्रयेऽप्यन्वेति । न च प्रथमेऽमृतेति विशेषणेन पौनरुक्त्यापत्तिः । शोभना धारा यस्यां सा सुधारा, आर्द्रया त् नक्षत्र विशेषेण सह वर्तत इति सार्दा । सुधारा चासौ । साद चेति तथा तामित्यर्थः । एतेन वृष्टौ पुष्टतरत्वं सूचितम् । आकृतिपको स्निग्धवम् । कृतिपक्षे रसातलप्रवेशरूपमहाशपथलक्षणपातिव्रत्यवीररसघटितवेन सरसत्वं च । तस्मादितःपरं वैदेही सर्वात्मना स्तव्यैव सर्वैर्न तु तदुद्देशेन मया- न्येन वा शोकः कार्य इति तात्पर्यम् ॥

इति प्रणयप्रकाशे तृतीयः प्रमोदः ।।