पृष्ठम्:भामिनीविलासः.djvu/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
अन्योक्त्युल्लासः

कदाचित्तत्सत्त्वेऽपि तस्य सुनिरस्यत्वाच्चेति ध्येयम् । माने निरुक्तगर्वे सपदि तत्कालं प्रस्थातुकामे गन्तुकामे सतीति यावत् । न तु गते तदेतत्सत्त्वेऽप्यक्षतेः । चन्द्रोदये सत्येतच्चतुष्टयं तावत्स्पष्टमेव स्वभावाद्भवतीति । तस्मादधुनोक्तरीत्या। सर्वलोकाभ्युदयसमय इदानीमित्यर्थः । त्वयेत्यार्थिकम् । धारेति । जलदपटलाटोप इत्यर्थः । ‘आडम्बरः समारम्भे’ इति विश्वः । तत्रापि विधौ चन्द्रे, न तु नभःप्रदेशविशेषे । विधातुं कर्तुमुचितो युक्तः किं नु । अपि तु नैव योग्य इति योजना । तदभ्रेण शुभ्रच्छव्याच्छादनं भवता नैव भावनीयमिति भावः । यद्वा गोकुले भगवता हेतुत्वादैरैन्द्रयागे भग्ने प्रवर्तिते च गोवर्धनाराधने क्रुद्धेन वृद्धश्रवसा प्रारब्धेऽतिवृष्टिविवर्धने तत्रत्यानां ब्रह्माणं प्रतीयं मघवन्मौढ्यध्वननधुरीणा वाणी । तद्यथा-- हे धातः । चकोरीति । चकोरवच्छ्रीकृष्णचरणनखचन्द्वैकजीविनां गोपानां स्त्रीसमूह इत्यर्थः । प्राचीं पुराकृतभगवत्संघटनां कांचिद्दूतीमित्यर्थः । ‘कैः अवकुले’ इति छेदः। फलोद्गमे स्वनाशकत्वात्तुच्छकुले । वंश इत्यर्थः । कैः सुखरूपैर्ध्वनिभिः । विधौ 'विधुः शशाङ्के कर्पूरे हृषीकेशेऽपि’ इति विश्वाच्छीकृष्ण इत्यर्थः । इन्द्रेणेति शेषः । शिष्टं तु प्राग्वदेव । इह ललितो नायकः । चरणत्रये शृङ्गारश्वरमे करुणश्च रसः । श्लेषोऽप्यलंकारः । शार्दूलविक्रीडितं वृत्तम् । तदुक्तम् –‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति ।

 ननु सत्यमेव यदुपदिष्टं निरुक्तान्योक्त्या स्ववैभवमदात्कस्यापि गुणापलापेन केषांचिदपि तदेकोपजीविनां जीवातुविनाशो नैव विधेय इति, तथाप्येते मदनुयायिनस्तावन्मां प्रति प्रतिदिनम् । ‘अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥' इति । पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ।’ इति। ‘असंपादयतः कंचिदर्थजातिक्रियागुणैः । यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ।’ इति । ‘तुङ्गत्वमितरानाद्रौ नेदं सिन्धावगाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥' इति । तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु ग्रसते तन्म्रदिम्रः स्फुटं फलम् ॥ इति । ‘अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्टुरक्षिप्तमृगयूथो मृगाधिपः ॥’ इति च बहुतरमाघकाव्यादिसंमतिपूर्वकं स्वाभ्युदयार्थं परापकारमेव कर्तव्यतयोपदिशन्तीत्याशङ्किनं प्रति तत्रत्य एव कश्चित्तटस्थो मध्यस्थ इव सकलगुणज्ञतया प्राक्तनोपदेष्टयैव कमलान्योक्त्या श्रद्धाविधानं व्यनक्ति--