पृष्ठम्:भामिनीविलासः.djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
भामिनीविलासे

मनिष्कामसाधारणतृप्तिजनकदीप्यादिमालित्वं च क्रमासूच्यते । नन्वधिकारवि- रहे शशकशिशोः सिंहशौर्यं प्रार्थनशतेनापि कथं घटेतेत्यतस्तद्विशिनष्टि--- विशालेति । विशाला ब्रह्मलोकान्तवैन महती येयं विषयावली शब्दादीष्टविषय- पङ्किः सैव वलयाकारा । एतेन पलायनादिना प्रतीकारायोग्यवं ध्वनितम् । एता- दृशी लग्ना संश्लिष्टा या दावानलस्य दावानेः प्रसृत्वराणां ‘प्रसृत्वरः प्रसृमरः' इत्य- मरात्प्रसरणशीलानां शिखानां अर्चितिः शिखास्त्रियाम्' इत्यपि तदुक्तेज्वला- नामावलिस्तया विकलितमित्यर्थः । अत्रैकविंशतिभक्त्यभिक्षः शान्त एव रसः । इह रूपकव्यतिरेककाव्यलिङ्गलुप्तोपमादयोऽलंकाराः ॥

 एवं व्यङ्ग्यमयदया भगवन्तं तदेका कारखान्ततामभ्ययं परमसंतप्तवेन विल- म्बासहिष्णुः साक्षादेवाथ तं प्रति तत्प्रतिबन्धमोचनपूर्वकसद्यस्तत्ताधायकं तत्कृ- पाकटाक्षच्छटामभिवाञ्छति-

अये जलधिनन्दिनीनयननीरजालम्बन-
ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम् ।
प्रभातजलजोन्नमद्गरिमगर्वसर्वकषै-
र्जगत्रितयलोचनैः शिशिरयाशु मां लोचनैः ॥२॥

 अये इति । इदं हि कोमलामन्त्रण अयिवत् । जलधीति । जलधिः क्षीराब्धि- खस्य नन्दिनी नन्दयति स्वयंवरेण भगवदेकपरायणतयानन्दयतीति तथा । न तु कन्यकामात्रमित्यर्थः । एतेन तस्यां पितृवंशोद्धारकत्वं ध्वन्यते । तस्या ये नय- ननीरजे नेत्रकमले तयोरालम्बन मिव निरुक्तस्वयंवरकाले तयोः सर्वत्र दोषदर्श- नवशात्कामसमुद्रमजमानलेन निरालम्बनतायां संपद्यमानायां त्वमेवानन्तकल्या- णगुणं निलयतैनात्मदृष्ट्या वसङ्गवेन चाश्रयीभूत इवेति तत्संबुद्धौ तथेत्यर्थः । एतेन खप्रार्थनीयशिशिरीकरणसामग्रीप्राचुर्यं शीतस्पर्शवत्वस्यासाधारणलक्षणवेन तन्निधौ तदाधिक्यं तन्नन्दिन्यां ततोऽपि तदाधिक्यं तल्लोचनपद्मयोस्ततोऽपि तदाधिक्यं तदालम्बने त्वयि ततोऽपि तदाधिक्यं तु कैमुल्यसिद्धमिति योयते । मां लोचनैर्वारंवारं सदयमालोचनैः । सकरुणकटाक्षनिरीक्षणैरिति यावत् । एतेन कामनौत्कण्ठ्धन संतापाधिक्यं ध्वन्यते । तेन प्रार्थिवेक्षणमात्रतापि सूच्यते । तत्रापि आशु शीघ्रं न तु विलम्बेन । एवं च परमातुरवं सूचितम् । तेना- पश्यनिरीक्षणीयत्वं सूच्यते । शिशिरय शीतलीकुर्विति संबन्धः । सानुकम्पसत- तापाज्ञावलोकनैत्रिविधतापसंतप्तं मां भो भगवन्नद्वैतात्मतत्त्वसाक्षात्काराविर्भावनेन