पृष्ठम्:भामिनीविलासः.djvu/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
शान्तविलासः ।

‘ज्ञावा शिवं शान्तिमयन्तमेति', ज्ञानं लब्वा परां शान्तिमचिरेणाधिगच्छति इति श्रुतिस्मृतिसिद्धामविद्याध्वंसलक्षणां जीवन्मुक्तिलक्षणां वा शान्ति प्रति नये- त्याशयः । ननु कश्चिदविरक्तोऽपि द्रुतं मे मुक्तिं देहीतीश्वरमभ्यर्थययेव नैता- वता स तत्पात्रतामेतीत्याशय तत्ताघटनायात्मानं विशिनष्टि-ज्वलदिल्या- दिद्वितीयपादेन । ज्वलन्दीप्यमानो नतूत्पन्नमात्रः । एतेनासयवं व्यज्यते । एतादृशो यो ज्वलनः । ज्वलनो हव्यवाहनः' इत्यमरादग्निस्तद्वजिखरो जयशीलः परधर्षकः एतादृशो योऽयं ज्वरः ‘किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्' इति श्रुतिसिद्धद्वैतानुभवज्वरः । सर्वदा संतापकलाज्वर इव दुःखद इत्यर्थः । तस्य यो भर आधिक्यं तेन या खरा विलम्बासहिष्णुता तया भङ्गुरः क्षयिष्णुस्त- मित्यर्थः । एतेनातितमकारुण्यास्पदवं व्यज्यते । ननु भववेवमथापि मदवलोक- नेषु तादृशतापहारकवादिकं कुतस्त्यमित्याशङ्कय तानि विशिनष्टि-प्रभातेत्याधु- तरार्धशेषेण । प्रभाते यानि जलजानि कमलानि । एतेन विकसदवस्थवं योति- तम् । तेषां य उन्नमनूच्चतमोऽपि भारान्नयमानः । एवं च गर्ने निरतिशयवं व्यज्यते । एतादृशो यो गर्वस्तस्य सर्वकषाणि सर्वस्यापहारकाणि तैरियर्थः । एतेन शिशिरीकारविशारदवं ध्वनितम् । जगदिति । जगत्रितयं त्रैलोक्यं लोच- यन्त्यालोचयन्तीति तथा तैरित्यर्थः । एवं च सर्वज्ञजन्यवेन खात्मज्ञानजनन- द्वारा स्वाज्ञानदलनदक्षवं द्योवितम् । अत्र प्रतीपविशेषः परिकरः परिकराङ्करा- दिश्चालंकारः ॥

 एवं साक्षाद्भगवन्तं प्रति वाभीष्टं संप्रार्थ्य, अथ ‘परोक्षप्रिया इव हि देवाः इति श्रुतेः परोक्षवेनापि तत्प्रार्थयते-स्मृतापीत्यादिद्वाभ्याम् ।

स्मृतापि तरुणातपं करुणया हरन्ती नृणा-
मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् ।
कलिन्दनगनन्दिनीतटसुरदुमालम्बिनी
मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ॥ ३॥

 स्मृतापीति । कापि वरूपतः ‘यतो वाचो निवर्तन्ते' इत्यादिश्रुतेरवाङ्मनस- गम्येति यावत् । एतेन ‘कृषिवाचकः शब्दः' इत्यादिश्रुतेः, कृष्णस्तु भगवान्खयम् इत्यादिस्मृतेश्च श्रीकृष्णस्य पूर्णावतारखं योतितम् । अत एव कादम्बिनी भक्तानु- अहार्थं गृहीतमायिकलीलानीलविग्रहनटनपाटवलेन नवनीरदपङ्किरेवेत्यर्थः। ‘काद-