पृष्ठम्:भामिनीविलासः.djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
भामिनीविलासे

म्बिनी मेघमाला' इत्यमरः। मदीयेति । ममेयं मदीया। मामकीनेति यावत्। एतादृशी या मतिर्बुद्धिस्तां चुम्बतीति तथा । मद्बुद्धिचुम्बनकत्र भवविति योजना । यद्वा निरुक्तश्रीकृष्णाख्यब्रह्मण आत्मवैन खबुद्धेरवश्यं तदाकारतासंभवादुक्त प्रार्थनानर्थ- क्यमेवेति यदि विभाव्यते तदा तत्संभवस्य याथार्थेऽपि तत्र दृश्यावच्छिन्नतदा- कारवसत्वेन निरवच्छिन्नतदाकारताजन्यानन्दानुभवाभावादवच्छेदकमात्रब्युदस- नस्यैव प्रार्थनीयत्वात् हर्षयति उन्मादयतीति वा व्युत्पत्त्या मदः कामस्तस्येयं मदीया सा चासौ मतिश्चेति प्राग्वदेव । एवं च कामबुद्धिचुम्बनकत्र भवविति प्रार्थना । एवं च बुद्धावुक्तभगवन्मूर्तावाविर्भूतायां सत्यां सा तावन्मुमुक्षु मां मनोरमास्मार- कवादिना नैव पीडयिष्यतीति नान्तरीयकतयेव मन्मतिः स्वस्वरूपशान्तैव स्यादि- त्याशयः । तदुक्तं श्रीमत्सुरेश्वरवार्तिके–'अनात्मादर्शनेनैव परात्मानमुपास्महे इति । ननु स्त्रियाः स्त्रीचुम्बनमनुचितमेवेति चेत्सत्यम् । शृङ्गारस्थायिभावाख्य- रतिमूलकस्य तस्य तथावेऽपि ‘रतिर्देवादिविषया व्यभिचारी तथाञ्चितः । भावः प्रोक्तः' इति काव्यप्रकाशकारिकोक्तदेवादिविषयकभावात्मकरतिमूलकस्य तस्य दुहि- तरि जनयित्र्याः खांशाधिक्येन पुत्रापेक्षयापि प्रेमाधिक्यस्य लोकादाववलोकित- लैनेश्वरस्य समठ्युपहितखेन व्यष्टिभूताया मद्बुद्धेः कामबुद्धेर्वा जन्यखेन मातृ- दुहितृभावात्प्रेमोत्कर्षेण सुतरामुचितत्वात् । एतेन ‘तस्यैवाहं ममैवासौ स एवा- हम्' इति श्रीमन्मधुसूदनसरस्वतीभिर्गीताटीकोपोद्धाते सामान्येन वर्णितभक्ति- त्रैविध्यमध्ये द्वितीयभक्तिरियमिति ध्वन्यते । द्वितीयपक्षे तु तृतीयैव । ननु नहि प्रार्थनमात्रेणार्थसिद्धिः प्रायः क्वचिदपि दृष्टचरा, नापि निर्गुणायास्तस्याः सत्यपि मायिकोकलीलाविग्रहग्रहे संभवति संस्कारमन्तरा निरुक्तचुम्बनरचनावलम्बनं, नापि नीलरूपवत्त्वमात्रेणेन्द्रनीलादिवत्कादम्बिनीरूपकं सुकरमित्याशङ्वा तस्यां निरुपचरितनिरुपमानुकम्पावत्त्वात्सहस्रावधिकगोपकन्यासौदामन्यावेष्टितवाद्वृन्दा- वनविहारित्वाचात्युचितमेवेदं मदुक्तमिति तद्विशेषणमिषेण त्रिपाद्या समाधत्ते-- स्मृतापीत्यादिना । अपिना चिन्तामण्यादिवैलक्षण्यं द्योत्यते । प्रसिद्धघनावलीव्य- तिरेकश्च । एवमभङ्गुरपदेनापि प्रसिद्ध विद्युद्विलक्षणत्वम् । तथा कलिन्दनगन- न्दिनी यमुना तत्तटे ये सुरद्रुमाः कल्पतरवस्तानालम्बत आश्रयत इति तथेत्यने- नापि प्रसिद्धघनावलीव्यतिरेकश्च । इह रूपकं व्यतिरेकश्वालंकारः ॥

कलिन्दनगनन्दिनीतटवनान्तरं भासय-
न्सदा पथि गतागतश्रमभर हुरन्प्राणिनाम् ।