पृष्ठम्:भामिनीविलासः.djvu/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
शान्तविलासः ।

लतावलिशतावृतो मधुरया रुचा संभृतो
ममाशु हरतु श्रमानतितरां तमालद्रुमः ॥ ४॥

 कलिन्देति । कलिन्दनगनन्दिनी यमुना तस्या यत्तटं तीरं तत्र यहृन्दावना- दिवनं तस्य यदान्तरमन्तरालं मध्यवर्तिस्थलमित्यर्थः । भासयन्खकान्या दीप- यन्। एतेन प्रसिद्धतमालव्यतिरेको द्योत्यते । तथा सदा न तु मध्याह्न एव । तत्रापि ग्रीष्मादावेव । पथि संसारमार्गे । प्राणिनां जीवानाम् । गतागतेति । ऊध्र्वाधोगमनागमनजन्यक्लेशातिशयमिति यावत् । एतेनापि स एव । तथा । लतेति । लतानां कनकलताकारकृशपीतसरलदीप्तगौराङ्गीणां गोपकन्यकानामि- त्यर्थः । या वलयः पङ्कयस्तासां शतानि तैरावृतो वलयित इत्यर्थः । एवं च रास- क्रीडाकालिकत्वमपि व्यज्यते पूर्वपद्यवत् । मधुरया चन्द्रिकयेवातिस्निग्धया न तु विग्मयापि । रुची कान्त्या संभृतः सम्यक् नैसर्गिक कान्तिमत्त्वलक्षणेन । समी- चीनखेनेत्यर्थः । भृतः परिपुष्टः । एतेनाप्यसावेव । एतादृशस्तमालद्रुमः श्याम- वर्णवत्त्वसाधम्र्याच्छीकृष्णाख्यः कश्चित्तापिच्छवृक्ष इत्यर्थः । मम श्रमाना- धिभौतिकादित्रिविधतापान् । आशु द्रुतम् । न तु विलम्बेन । एवं च खस्य परमौत्सुक्य सूच्यते । अतितमा पुनस्तद्भानप्रागभावासमानकालीन यथा स्यात्तथा हरविति संबन्धः । एतेन सकार्यकाज्ञानध्वंसनाभ्यर्थनं ध्वन्यते । अन्ना- प्युक्तावेवालंकारौ ॥

 ननु ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इति श्रुतेः, कर्मणैव साधुत्वं स्यात् । ईश्वरस्य तु ‘असङ्गो हि' इति श्रुतेः, ‘नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः' इति स्मृतेश्च जीवन्मुक्यादावुदासीनत्वात्कि मत्प्रार्थनया, किंतु ‘तमेतं वेदानुवचनेन' इत्यादिश्रुत्युक्तं परमेश्वरैकार्पणबुड्या खवर्णाश्रमधर्मानुष्ठान- मेव संपाद्य ततश्चित्तशुब्यादिक्रमेण ब्रह्म द्वैतात्मैक्यात्मतत्त्वविषयका बाधिता प्रति- बद्धसाक्षात्कारद्वारा सकार्यकतद्विषयकमूलाज्ञानध्वंसोपलक्षिताद्वैतसच्चिदानन्दान- न्तब्रह्मात्मरूपमुक्तिः संभवतीत्याशय समाधत्ते--

वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा-
स्तां स्वप्नेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रत-
स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः ॥५॥